2023-10-04 09:24:44 by Bharadwajraki
This page has been fully proofread twice.
न्तः साधनचतुष्टयसंपन्नः प्रमाता । काम्यानि स्वर्गादीष्टसाधनानि ज्योतिष्टोमादीनि । निषिद्धानि नरकाद्यनिष्टसाधनानि ब्राह्मणहन-
[commentary]
प्तिरव्यवहितदृष्टा । स तु व्यवहितः । अव्यवहितस्य फलत्वे संभवति न व्यवहितस्य तत्कल्पनं युक्तम् । किं च तव्यप्रत्ययानुरोधेन स्वाध्यायस्य कर्मत्वं प्रतीयते । तच्च उत्पत्त्यादेरभावादवाप्यत्वेनेत्यवाप्तिः श्रुता ; न तु अर्थावबोधः । 'श्रुताश्रुतयोर्मध्ये च श्रुतं बलवत्' इति न्यायादवाप्तेरेव फलत्वम् । किं च अध्ययनस्यार्थावबोधार्थत्वे क्षत्त्रियाणां निषादेष्ट्याद्यध्ययनं न स्यात्, तत्र तेषामधिकाराभावेन कर्मोपयुक्तार्थावबोधस्य व्यर्थत्वात् । अवाप्त्यर्थत्वे तु ब्रह्मयज्ञार्थं
तेषामध्ययनं युज्यते । तस्मादध्ययनस्यावाप्तिरेव फलमिति । काम्यानीति । यद्यपि 'वसन्ते वसन्ते ज्योतिषा यजेत' इति वीप्सानुरोधेन ज्योतिष्टोमस्य नित्यत्वम्, तथापि नित्यस्य सतः काम्यस्येदमुदाहरणम् । आदिशब्देन च केवलकाम्यपुत्रकामेष्ट्यादीनां संग्रहः । वर्जनं च कामनापुरस्कारेणेति ज्ञेयम् । इष्टेति । 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इति श्रुतेरित्यर्थः । अनिष्टेति । असति प्रायश्चित्ते