This page has been fully proofread twice.

न्तः साधनचतुष्टयसंपन्नः प्रमाता । काम्यानि
स्वर्गादीष्टसाधनानि ज्योतिष्टोमादीनि । नि-
षिद्धानि नरकाद्यनिष्टसाधनानि ब्राह्मणहन-
 
[commentary]
 
प्तिरव्यवहितदृष्टा । स तु व्यवहितः । अव्यवहितस्य फलत्वे
संभवति न व्यवहितस्य तत्कल्पनं युक्तम् । किं च तव्यप्र-
त्ययानुरोधेन स्वाध्यायस्य कर्मत्वं प्रतीयते । तच्च उत्पत्त्यादेर-
भावादवाप्यत्वेनेत्यवाप्तिः श्रुता ; न तु अर्थावबोध: । ' श्रुता-
श्रुतयोर्मध्ये च श्रुतं बलवत् ' इति न्यायादवाप्तेरेव फल-
त्वम् । किं च अध्ययनस्यार्थावबोधार्थत्वे क्षत्त्रियाणां निषादे-
ष्ट्याद्यध्ययनं न स्यात् , तत्र तेषामधिकाराभावेन कर्मोपयु-
क्तार्थावबोधस्य व्यर्थत्वात् । अवाप्त्यर्थत्वे तु ब्रह्मयज्ञार्थं
तेषामध्ययनं युज्यते । तस्मादध्ययनस्यावाप्तिरेव फलमिति ।
काम्यानीति । यद्यपि ' वसन्ते वसन्ते ज्योतिषा यजेत '
इति वीप्सानुरोधेन ज्योतिष्टोमस्य नित्यत्वम्, तथापि
नित्यस्य सत: काम्यस्येदमुदाहरणम् । आदिशब्देन च के-
वलकाम्यपुत्रकामेष्ट्यादीनां संग्रहः । वर्जनं च कामनापु-
रस्कारेणेति ज्ञेयम् । इष्टेति । ' ज्योतिष्टोमेन स्वर्गकामो
यजेत ' इति श्रुतेरित्यर्थ: । अनिष्टेति । असति प्रायश्चित्ते