This page has been fully proofread twice.

तव्य: ' इति स्वविधिप्रयुक्ततैव संभवतीति किमित्यध्यापन-
विधिप्रयुक्तत्वम् । यदि च अध्ययनमन्तरेण अध्यापनम-
नुपपन्नमिति अध्यापनविधिप्रयुक्तता अध्ययनस्य, तर्हि अ-
ध्यापनमन्तरेण अध्ययनानुपपत्तेः अध्ययनविधिप्रयुक्ततैव
अध्यापनस्य किं न स्यात् ? किं च अध्यापनस्यैव विधेयत्वे
अध्येतुर्नियोगाभावात् स्वयं प्रवृत्तिर्न स्यात् ? न च इष्टा-
पत्तिः, ' सत्यकामो ह वै जाबालो हारिद्रुमतं गौतममेत्योवाच '
इत्यादिश्रुतौ स्वयं प्रवृत्तेः श्रूयमाणत्वात् । तस्मादध्ययनं
स्वविधिप्रयुक्तम्, न त्वध्यापनविधिप्रयुक्तमिति सूक्तम् । वि-
स्तरस्तु विवरणादौ बोद्धव्य: । अध्ययनस्य च फलमर्था-
वबोध:, दृष्टत्वादिति मीमांसका: । नेति सिद्धान्तः ।
तथा हि--- ' स्वाध्यायोऽध्येतव्यः ' इत्यध्ययनविधिना
तावदध्ययनं विधीयते । तस्य च फलाकाङ्क्षायां नार्था-
वबोधस्य फलत्वेनान्वयः, मानाभावात् । न च दृष्टत्वा-
दिति वाच्यम्, अध्ययनानन्तरमर्थावबोधस्येवावाप्तेरपि
दृष्टत्वात् । न च अवाप्तेरपुरुषार्थत्वान्न फलत्वमिति वा-
च्यम्, अर्थावबोधेऽपि तुल्यत्वात् । न च अर्थावबोधे परम्पर-
याहवनीयादिवत्पुरुषार्थानुबन्धित्वात्फलत्वमिति वाच्यम्,
अवाप्तेरपि तुल्यत्वात् । किं च अध्ययनस्यार्थावबोधादवा-