This page has not been fully proofread.

वेदान्तसारः
 
१२
 
S
 
"
 
तव्यः' इति स्वविधिप्रयुक्ततैव संभवतीति किमित्यध्यापन-
विधिप्रयुक्तत्वम् । यदि च अध्ययनमन्तरेण अध्यापनम-
नुपपन्नमिति अध्यापनविधिप्रयुक्तता अध्ययनस्य, तर्हि अ-
ध्यापनमन्तरेण अध्ययनानुपपत्तेः अध्ययनविधिप्रयुक्ततैव
अध्यापनस्य किं न स्यात् ? किं च अध्यापनस्यैव विधेयत्वे
अध्येतुर्नियोगाभावात् स्वयं प्रवृत्तिर्न स्यात् ? न च इष्टा-
पत्तिः, 'सत्यकामो ह वै जाबालो हारिद्रुमतं गौतममेत्योवाच
इत्यादिश्रुतौ स्वयं प्रवृत्तेः श्रूयमाणत्वात् । तस्मादध्ययनं
स्वविधिप्रयुक्तम, न त्वध्यापन विधिप्रयुक्तमिति सूक्तम् । वि
स्तरस्तु विवरणादौ बोद्धव्य: । अध्ययनस्य च फलमर्था-
वबोध:, दृष्टत्वादिति मीमांसका: । नेति सिद्धान्तः ।
तथा हि-
हि — 'स्वाध्यायोऽध्येतव्यः' इत्यध्ययन विधिना
तावदध्ययनं विधीयते । तस्य च फलाकाङ्क्षायां नाथ-
वबोधस्य फलत्वेनान्वयः, मानाभावात् । न च दृष्टत्वा-

दिति वाच्यम्, अध्ययनानन्तरमर्थावबोधस्येवावाप्तेरपि
दृष्टत्वात् । न च अवामेरपुरुषार्थत्वान्न फलत्वमिति वा-
अर्थावबोधेऽपि तुल्यत्वात् । न च अर्थावबोधे परम्पर-
याहवनीयादिवत्पुरुषार्थानुबन्धित्वात्फलत्वमिति वाच्यम्,
अवाप्तेरपि तुल्यत्वात् । किं च अध्ययनस्यार्थावबोधादवा-
-
 
च्यम्,