This page has been fully proofread twice.

क्तप्रकारेणेत्यर्थः । ब्रह्मचर्यादिः प्रकार: । उक्तप्रकारवि-
शिष्टेन कृताध्ययनजन्यबोधो नित्यादिकर्मसु उपयुज्यते,
न त्वन्यथेति भावः । अध्ययनं च अध्यापनविधिप्रयुक्त-
मिति प्राभाकरा: । नेति वेदान्तिनः । तथा हि——
'अध्यापयीत' इति विधिविधेयत्वे अध्ययनस्य अध्यापनवि-
धिप्रयुक्तता स्यात् । न च अध्यापने विधिरस्ति, 'षण्णां तु
कर्मणामस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव
विशुद्धाच्च प्रतिग्रहः' इत्यादिना वृत्त्यर्थत्वेन तस्य रागतः
प्राप्तत्वात् । न च रागत: प्राप्ते विधिरस्ति, भोजनादावपि
तत्प्रसङ्गात्, 'प्राङ्मुखोऽन्नान्यश्नीत' इत्यस्य च प्राङ्मुख-
त्वमात्रविधायकत्वात् । न च 'अध्यापयीत' इति प्रत्य-
क्षो विधिरस्तीति वाच्यम्, तत्र 'अधीयीत' इति
वचनविपरिणामात् । अन्यथा 'एतया ग्रामकामं याजयेत्'
इत्यत्र 'ग्रामकामो यजेत्' इति वचनविपरिणामो न स्यात् ।
तत्र च यदि याजनस्य वृत्त्यर्थत्वेन रागतः प्राप्तत्वान्न विधि-
रिति वचनविपरिणामाश्रयणम् , तदा प्रकृतेऽपि तुल्यम् ।
तस्माद्रागतः प्राप्तत्वान्नाध्यापने विधिरस्तीति कथमध्यापन-
विधिप्रयुक्तता अध्ययनस्य । किं च यावत्स्वविधिप्रयुक्तत्वं संभ-
वति, तावन्नान्यविधिप्रयुक्तता । तथा च 'स्वाध्यायोऽध्ये-