This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 

 
क्तप्रकारेणेत्यर्थः
 
ब्रह्मचर्यादिः प्रकार: । उक्तप्रकारवि-

 

शिष्टेन कृताध्ययनजन्यबोधो नित्यादिकर्मसु उपयुज्यते,

न त्वन्यथेति भावः । अध्ययनं च अध्यापनविधिप्रयुक्त-

मिति प्राभाकरा: । नेति वेदान्तिनः । तथा हि——

'अध्यापयीत' इति विधिविधेयत्वे अध्ययनस्य अध्यापनवि-
घि

धि
प्रयुक्तता स्यात् । न च अध्यापने विधिरस्ति, 'ण्णां तु

कर्मणामस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव

विशुद्धाच्च प्रतिग्रहः' इत्यादिना वृत्त्यर्थत्वेन तस्य रागतः

प्राप्तत्वात् । न च रागत: प्राप्ते विधिरस्ति, भोजनादावपि

तत्प्रसङ्गात्, 'प्राङ्मुखोऽन्नान्य नीत' इत्यस्य च प्राङ्मुख-

त्वमात्रविधायकत्वात् । न च 'अध्यापयीत' इति प्रत्य-

क्षो विधिरस्तीति वाच्यम्, तत्र 'अधीयीत' इति

वचनविपरिणामात । अन्यथा 'एतया ग्रामकामं याजयेत '

इत्यत्र 'ग्रामकामो यजेत' इति वचनविपरिणामो न स्यात् ।

तत्र च यदि याजनस्य वृत्त्यर्थत्वेन रागतः प्राप्तत्वान्न विधि-

रिति वचनविपरिणामाश्रयणम्, तदा प्रकृतेऽपि तुल्यम् ।

तस्माद्रागतः प्राप्तत्वान्नाध्यापने विधिरस्तीति कथमध्यापन-

विधिप्रयुक्तता अध्ययनस्य । किं च यावत्स्वविधिप्रयुक्तत्वं संभ-

वति, तावन्नान्यविधिप्रयुक्तता । तथा च ' स्वाध्यायोऽध्ये-