This page has been fully proofread once and needs a second look.

वेदान्तसारः
 

थार्थत्वं सकलवादिसिद्धम् । एवं च सत्यादिवाक्यजन्यज्ञा-

नस्य संशयत्वे ब्रह्मणो मिथ्यात्वापात: । अनिर्वचनीयख्या-
तिस्त्व

तिस्त्वग्रे
वक्ष्यते । किं च वेदवाक्यस्य स्वविषये यथा-

र्थज्ञानजनकत्वमिति सर्ववैदिकसंमतम् । तत्र वेदान्तवा-

क्यानामयथार्थसंशयरूपापातज्ञानजनकत्वे अप्रामाण्यापातः ।

संशयधर्मी सामान्यतो ज्ञातो विशेषतश्चाज्ञातो वक्तव्यः ।

ब्रह्मणि च सामान्यविशेषभावोऽनुपपन्न इति नापातज्ञानस्य

संशयत्वमिति । ततश्च किमापाततो ज्ञानमिति चेत्, संशया-

विरोधिनिश्चय एव । न च निश्चयस्य संशयविरोधित्वा-

त्कथमेतदिति वाच्यम् । दोषानास्कन्दितस्यैव तस्य संशय-

विरोधित्वात् । अन्यथा 'जलम्' इति निश्चये सति

प्रामाण्यसंशयास्कन्दिताद्विषयसंशयो न स्यात् । यदि च

प्रामाण्यसंशयादिना निश्चयस्य प्रतिबद्धत्वान्न संशयवि
-
रोधित्वम्, तदासंभावनादिदोषप्रतिबद्धत्वात् नापातनिश्चय-

स्य अज्ञानादिसकलप्रपञ्चविरोधित्वमिति तुल्यम्, असति

प्रतिबन्धके निश्चयत्र संशयविरोधित्वात् । तत्मादापातनि-

इचये सत्यपि संशयादेर्जायमानत्वात्तन्निरासार्थ श्रवणादौ

प्रवृत्तिर्युक्तेति भावः । आपातनिश्चये हेतुमाह --- अधी-

तेति । अधीतेः प्रकारमाह --- विधिवदिति, विध्यु-
-
 

-