This page has been fully proofread twice.


प्रवर्तेत तत्र काम्यनिषिद्धयोः' इति वचनादिति भावः ।
काम्यादिवर्जनपुरःसरं नित्याद्यनुष्ठाने हेतुमाह --- अधि-
गतेति । अखिलवेदार्थाधिगमे, निषिद्धे तावत्पापभयेन न
प्रवृत्तिः । नापि काम्ये, तत्साध्यफलस्यानित्यत्वेन ज्ञानात्ततो
विरक्तत्वात् । 'नात्मलाभात्परम्' इति श्रुतेश्च परमपुरु-
षार्थात्मज्ञानसाध्यकविचारोपयुक्तसाधनचतुष्टयसंपत्त्युपयुक्ता-
न्तःकरणशुद्धयर्थेध्यर्थं नित्यादिषु प्रवर्तत इत्यर्थ: । नन्वखिलवे-
दार्थाधिगमे, सत्यादिवाक्येभ्यो ब्रह्मणोऽप्यवगतत्वाद्विचारा-
त्प्रागेवानर्थनिवृत्तेः श्रवणादिवैयर्थ्यम्, तत्राह --- आपातत
इति । ननु किमापाततो ज्ञानं निश्चयः संशयो वा । आद्ये
पूर्वोक्तदोषप्रसङ्गः । ' तरति शोकमात्मवित्' इति श्रुतेर्ब्रह्म-
ज्ञानस्यैव तन्निवर्तकत्वान्निश्चयत्वेनैव भ्रमनिवर्तकत्वदर्शनाच्च ।
न द्वितीयः, सत्यादिवाक्येषु कोट्यन्तरोपस्थापकपदाभावा-
त्तज्जन्यज्ञानस्य संशयत्वानुपपत्तेः । न चैककोटिकः संशयः
संभवति, एकस्मिन्धर्मिणि विरोधे भासमाने नानार्थावम-
शेर्शस्य संशयलक्षणत्वेन तस्य अनेककोटिकत्वात्, स्वतन्त्रपरि
भाषाकल्पने मानाभावात् । किं च सिद्धान्ते ज्ञानस्यायथा-
र्थत्वं न परेषामिव व्यधिकरणप्रकारकत्वेन, अनिर्वचनीय-
ख्यात्यङ्गीकारात् ; किं तु विषयमिथ्यात्वेन । संशयस्य त्वय-