This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 
-
 

 
-
 
प्रवर्तेत तत्र काम्यनिषिद्धयोः' इति वचनादिति भावः ।

काम्यादिवर्जनपुरःसरं नित्यायनुष्ठाने हेतुमाह -- अधि-

गतेति । अखिलवेदार्थाधिगमे, निषिद्धे तावत्पापभयेन न

प्रवृत्तिः । नापि काम्ये, तत्साध्यफलस्यानित्यत्वेन ज्ञानात्ततो

विरक्तत्वात् । 'नात्मलाभात्परम्' इति श्रुतेश्च परमपुरु-

षार्थात्मज्ञानसाध्यकविचारोपयुक्तसाधनचतुष्टयसंपत्त्युपयुक्ता-

न्तःकरणशुद्धयर्थे नित्यादिषु प्रवर्तत इत्यर्थ: । नन्वखिलवे-

दार्थाधिगमे, सत्यादिवाक्येभ्यो ब्रह्मणोऽप्यवगतत्वाद्विचारा-

त्प्रागेवानर्थनिवृत्तेः श्रवणादिवैयर्थ्यम, तत्राह - आपातत

इति । ननु किमापाततो ज्ञानं निश्चयः संशयो वा । आद्ये

पूर्वोक्तदोषप्रसङ्गः । ' तरति शोकमात्मवित्' इति श्रुतेर्ब्रह्म-

ज्ञानस्यैव तन्निवर्तकत्वान्निश्चयत्वेनैव भ्रमनिवर्तकत्वदर्शनाच्च ।

न द्वितीयः, सत्यादिवाक्येषु कोट्यन्तरोपस्थापकपदाभावा-

तज्जन्यज्ञानस्य संशयत्वानुपपत्तेः । न चैककोटिकः संशयः

संभवति, एकस्मिन्धर्मिणि विरोधे भासमाने नानार्थावम-

शेस्य संशयलक्षणत्वेन तस्य अनेककोटिकत्वात्, स्वतन्त्रपरि

भाषाकल्पने मानाभावात् । किं च सिद्धान्ते ज्ञानस्यायथा-

र्थत्वं न परेषामिव व्यधिकरणप्रकारकत्वेन, अनिर्वचनीय-

ख्यात्यङ्गीकारात्; किं तु विषयमिथ्यात्वेन । संशयस्य त्वय-