This page has been fully proofread twice.

न्मनि जन्मान्तरे वा काम्यनिषिद्धवर्जनपुर:-
सरं नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन
निर्गतनिखिलकल्मषतया नितान्तनिर्मलस्वा-
 
[commentary]
 
स्वाराज्यकामनाजननेनान्यथासिद्धेर्न तत्स्यात् । तथा च
' अर्थी समर्थो विद्वान्' इत्यादेर्व्याकोपः । न च प्रसज्ज्य-
प्रतिषेधः , सकलविशिष्टस्य श्रवणकर्तव्यताप्रतीतेरेकैकवि-
शिष्टस्य श्रवणकर्तव्यताप्रतीत्या विरोधाभावात् । न हि एकैक-
विशिष्टस्य श्रवणकर्तव्यताविधायकेन विवेकवता श्रवणं
कर्तव्यम्-- इत्येवमादिना सकलविशिष्टेन न कर्तव्यमिति
बोध्यते , तादृशपदाभावात् । आर्थिकेऽर्थे मानाभावात् ।
अर्थाद्ध्यविवेकिना न कर्तव्यमिति भासते , न तु विवेकव-
तापि इतरविशिष्टेन न कर्तव्यमिति । सकलविधाने एकवि-
धानस्याप्यावश्यिकत्वान्न विरोधः । तस्माद्विरोधाभावात् न
प्रसज्यप्रतिषेधः । न च लाघवादेका मुमुक्षैव अधिकारि-
विशेषणम् ; राजत्ववत्पुरुषविशेषणत्वेन विवेकादेरपि श्रुत-
त्वागौरवस्यापि न्याय्यत्वात् । तस्मात्साधनचतुष्टयसंपन्न
एव अधिकारीति । साधनचतुष्टयसंपत्तौ हेतुमाह--
नितान्तेति । स्वान्तमन्तःकरणम् । अन्त:करणशुद्धौ हेतु-
माह-- अस्मिन्नित्यादिना । काम्येति, 'मोक्षार्थी न