This page has been fully proofread once and needs a second look.



न्मनि जन्मान्तरे वा काम्यनिषिद्धवर्जनपुर:-
सरं नित्यनैमित्तिकप्रायश्चित्तोपासनानुष्ठानेन


 
-
 
निर्गतनिखिलकल्मषतया नितान्तनिर्मलखा-स्वा-
 
[Commentary]

स्वाराज्यकामना जननेनान्यथासिद्धेर्न तत्स्यात् । तथा च
'अर्थी समर्थो विद्वान्' इत्यादेर्व्याकोपः । न च प्रसज्ज्य-
प्रतिषेधः, सकलविशिष्टस्य श्रवणकर्तव्यताप्रतीतेरेकै कवि-
शिष्टस्य श्रवणकर्तव्यताप्रतीत्या विरोधाभावात् । न हि एकैक-
विशिष्टस्य श्रवणकर्तव्यताविधायकेन विवेकवता श्रवणं
कर्तव्यम् - इत्येवमादिना सकलविशिष्टेन न कर्तव्यमिति
बोध्यते, तादृशपदाभावात् । आर्थिकेऽर्थे मानाभावात् ।
अर्थाज्यविवेकिना न कर्तव्यमिति भासते, न तु विवेकव-
तापि इतर विशिष्टेन न कर्तव्यमिति । सकलविधाने एकवि-

धानस्याप्यावश्यिकत्वान्न विरोधः । तस्माद्विरोधाभावात् न
प्रसज्यप्रतिषेधः । न च लाघवादेका मुमुक्षैव अधिकारि-
विशेषणम् ; राजत्ववत्पुरुषविशेषणत्वेन विवेकादेरपि श्रुत-
त्वागौरवस्यापि न्याय्यत्वात् । तस्मात्साधनचतुष्टयसंपन्न
एव अधिकारीति । साधनचतुष्टयसंपत्तौ हेतुमाह -
नितान्तेति । स्वान्तमन्तःकरणम । अन्त:करणशुद्धौ हेतु-
माह - अस्मिन्नित्यादिना । काम्येति, 'मोक्षार्थी न