This page has not been fully proofread.

बालबोधिनीसहितः ।
 
एवं च प्रथममेकशाखापर्यालोचनया किंचिद्विशिष्टस्यैव श्रव-
णकर्तव्यताप्रतिपत्तिर्जायते, पश्चात्सर्वशाखापर्यालोचनया
सकलविशिष्टस्य श्रवणकर्तव्यता । तथा च सकलविशिष्टस्य
श्रवणकर्तव्यताप्रतिपत्त्या एकैक विशिष्टस्य श्रवणकर्तृताप्रतिप-
त्तिर्बाधनीया । एवं च प्रसज्ज्यप्रतिषेधप्रसङ्गः । किं च सा-
धनचतुष्टयस्य अधिकारिविशेषणतावादिनापि विवेकादेर्मुमु-
आाहेतुत्वमवश्यं वाच्यम् । एवं च विवेकादीनां मुमु-
क्षाजननेनान्यथासिद्धेर्नाधिकारिविशेषणत्वम् । तस्माच्चरम-
भाविन्येका मुमुक्षैवाधिकारिविशेषणमिति । अत्रास्मद्गुर
त्र: -- पुरुषविशेषणत्वेन हि श्रुतमधिकारिविशेषणं भवति,
यथोपनयनमध्ययन।धिकारिण: । 'शान्तो दान्तः' इत्ये-
वमादौ च विवेकादिकं श्रवणाधिकारिविशेषणत्वेन श्रुत-
मिति तस्याप्यधिकारिविशेषणत्वम् । न च कामाधिकारे
कामनाया एव निमित्तत्वम् ; तथा सति राजसूयेऽपि
स्वाराज्यकामब्राह्मणादेरप्यधिकारप्रसङ्गः । यदि च श्रुतत्वा-
द्वाजत्वमध्य पिकारिविशेषणम्, तदा विवेकादायपि तुल्यम् ।
न च विवेकादीनां मुमुक्षाजननेनान्यथासिद्धिः, मुमुक्षायां
कारणीभूतस्यापि विवेकादेरधिकारिविशेषणत्वस्य पुरुषवि
शेषणत्वेन श्रुतत्वादावश्यिकत्वात् । अन्यथा सामर्थ्यादेरपि