This page has been fully proofread twice.

योजनानि । अधिकारी तु विधिवदधीतवेदवेदाङ्गत्वेनापाततोऽधिगताखिलवेदार्थोऽस्मिञ्ज-
 
[commentary]
 
कर्तव्य इति हेतुत्वमतःशब्देनोच्यते । एवं च साधनचतुष्टयसंपत्त्यनन्तरमनर्थनिवर्तकब्रह्मज्ञानाय वेदान्तवाक्यविचारोऽवश्यं कर्तव्य इति सूत्रार्थः सिद्धः । अत्र च वक्ष्यमाणानुबन्धचतुष्टयं स्पष्टमेवेति साधूक्तं वक्ष्यमाणानुबन्धचतुष्टयम् 'अथातो ब्रह्मजिज्ञासा' इति सूत्रेण सूत्रितमिति । एवं च तदीयैरनुबन्धैरित्यपि युक्तमिति । अस्मिन्सूत्रे अथशब्देन प्रथममधिकारिण उक्तत्वात् तं प्रथमं दर्शयति -- अधिकारी त्विति । अधिकारी तु प्रमातेति संबन्धः । अत्र प्रमातृशब्दः सदाचारयुक्तब्राह्मणादिपरः । तेन च 'स्त्रीशूद्रद्विजबन्धूनां न त्रयी श्रुतिगोचरा' इत्यादिना निषिद्धाधिकारकस्त्र्यादीनां निरासः । मैत्रेय्याः श्रवणं त्वर्थवादमात्रमिति द्रष्टव्यम् । तादृशब्राह्मणमात्रस्याधिकारं व्यावर्तयति -- साधनेति । तथा च साधनचतुष्टयसंपत्तिरधिकारिविशेषणम् । अत्र वदन्ति -- न साधनचतुष्टयसंपत्तिरधिकारिविशेषणम् ; किं तु मुमुक्षामात्रम्, कामाधिकारे कामनाया एवाधिकारनिमित्तत्वात् । किं च विवेकादीनां हि न क्वचित्साकल्येन श्रवणम् ; अपि तु कस्यचित्क्वचिच्छ्रवणम् ।