This page has been fully proofread twice.

योजनानि । अधिकारी तु विधिवदधीतवेद-
वेदाङ्गत्वेनापाततोऽधिगताखिलवेदार्थोऽस्मिञ्ज-
 
[Ccommentary]
 
कर्तव्य इति हेतुत्वमत:शब्देनोच्यते । एवं च साधनचतु-
ष्टयसंपत्त्यनन्तरमनर्थनिवर्तकब्रह्मज्ञानाय वेदान्तवाक्यविचा-
रोऽवश्यं कर्तव्य इति सूत्रार्थ: सिद्ध: । अत्र च वक्ष्य-
माणानुबन्धचतुष्टयं स्पष्टमेवेति साधूक्तं वक्ष्यमाणानुबन्धच-
तुष्टयम् 'अथातो ब्रह्मजिज्ञासा' इति सूत्रेण सूत्रितमिति ।
एवं च तदीयैरनुबन्धैरित्यपि युक्तमिति । अस्मिन्सूत्रे अथश-
ब्देन प्रथममधिकारिण उक्तत्वात् तं प्रथमं दर्शयति -- अ-
धिकारी त्विति । अधिकारी तु प्रमातेति संबन्धः । अत्र
प्रमातृशब्द: सदाचारयुक्त ब्राह्मणादिपरः । तेन च 'स्त्रीशूद्र-
द्विजबन्धूनां न त्रयी श्रुतिगोचरा' इत्यादिना निषिद्धा-
धिकारकस्त्र्यादीनां निरास: । मैत्रेय्या: श्रवणं त्वर्थवादमा-
त्रमिति द्रष्टव्यम् । तादृशब्राह्मणमात्रस्याधिकारं व्यावर्तयति
--- साधनेति । तथा च साधनचतुष्टयसंपत्तिरधिकारिवि-
शेषणम् । अत्र वदन्ति --- न साधनचतुष्टयसंपत्तिरधिकारि-
विशेषणम् ; किं तु मुमुक्षामात्रम्, कामाधिकारे कामनाया
एवाधिकारनिमित्तत्वात् । किं च विवेकादीनां हि न क्वचि-
त्साकल्येन श्रवणम् ; अपि तु कस्यचित्क्चिच्छ्रवणम् ।