This page has been fully proofread once and needs a second look.

वेदान्तसार:
 

 
योजनानि । अधिकारी तु विधिवधीतवेद-

वेदाङ्गत्वेनापाततोऽधिगताखिलवेदार्थोऽस्मिञ्ज-
६'
 

 
[Commentary]
 
कर्तव्य इति हेतुत्वमत:शब्देनोच्यते । एवं च साधनचतु-

ष्टयसंपत्त्यनन्तर मनर्थनिवर्तकब्रह्मज्ञानाय वेदान्तवाक्यविचा-

रोऽवश्यं कर्तव्य इति सूत्रार्थ: सिद्ध: । अत्र च वक्ष्य-

माणानुबन्धचतुष्टयं स्पष्टमेवेति साधूक्तं वक्ष्यमाणानुबन्धच-

तुष्टयम् 'अथातो ब्रह्मजिज्ञासा' इति सूत्रेण सूत्रितमिति ।

एवं च तदीयैरनुबन्धैरित्यपि युक्तमिति । अस्मिन्सूत्रे अथश-

ब्देन प्रथममधिकारिण उक्तत्वात् तं प्रथमं दर्शयति - अ-
- अ-
धिकारी त्विति । अधिकारी तु प्रमातेति संबन्धः । अत्र

प्रमातृशब्द: सदाचारयुक्त ब्राह्मणादिपरः । तेन च 'स्त्रीशूद्र-

द्विजबन्धूनां न त्रयी श्रुतिगोचरा' इत्यादिना निषिद्धा-

धिकारकस्त्र्यादीनां निरास: । मैलेत्रेय्या: श्रवणं त्वर्थवादमा-

त्रमिति द्रष्टव्यम् । तादृशब्राह्मणमात्रस्याधिकारं व्यावर्तयति

--
- साधनेति । तथा च साधनचतुष्टयसंपत्तिरधिकारिवि-

शेषणम् । अत्र वदन्ति --- न साधनचतुष्टयसंपत्तिरधिकारि-

विशेषणम् ; किंतु तु मुमुक्षामात्रम्, कामाधिकारे कामनाया

एवाधिकारनिमित्तत्वात् । किं च विवेकादीनां हि न क्वचि-

त्साकल्येन श्रवणम् ; अपि तु कस्यचित्क्चिच्छ्रवणम् ।