This page has been fully proofread twice.

त्वेन संबन्ध: । ब्रह्मज्ञानं च अनर्थनिवर्तकमिति तस्य फल-
त्वं युक्तम् । तथा च अनर्थनिवर्तकब्रह्मज्ञानाय वेदान्तवाक्य-
विचारः कर्तव्य इत्यर्थः संपन्नः । अथ-शब्दश्च आनन्तर्यार्थ: ।
तस्यैव च आनन्तर्यं वक्तव्यम् , यदनन्तरं वेदान्तवाक्यविचारे
प्रवृत्तिरवश्यं भवति । तादृशं च नाध्ययनादि , कृताध्यय-
नस्यापि तत्राप्रवृत्ते: ; किं तु विवेकादिसाधनचतुष्टयम् ,
तदनन्तरमवश्यं तत्र प्रवृत्ते: । अतः अथ-शब्देन साधन-
चतुष्टयसंपत्त्यानन्तर्यमुच्यते । ननु न वेदान्तविचार एव
कर्तव्यः ; सन्त्यनेकानि कर्माण्यविनाश्यफलसाधनानि , ' अ-
क्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति ' 'अपाम
सोमममृता अभूम ' इत्यादिश्रुतेः इत्येतच्छङ्कानिरासार्थमतः-
शब्द: । अयमर्थ:---- साधनचतुष्टयसंपत्त्यनन्तरं वेदान्त-
वाक्यविचार एव कर्तव्यः , यतः कर्मफलानामनित्यत्वम्
' तद्यथेह कर्मचितो लोक: क्षीयत एवमेवामुत्र पुण्यचितो
लोकः क्षीयते ' इत्यादिश्रुतिबलादवगम्यते । न च पूर्वश्रुति-
बलान्नित्यत्वमेव किं न स्यादिति वाच्यम् ; कृतकत्वाद्यनु-
मानानुगृहीतत्वेन ' आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते '
इत्यादिस्मृतिबलेन च एतस्याः श्रुतेर्बलवत्त्वात् , पूर्वश्रुतेश्चाक-
ल्पक्षयं नित्यत्वे तात्पर्यात् । तथा च अवश्यं वेदान्तविचार: