This page has been fully proofread once and needs a second look.

बालबोधिनीसहितः ।
 

 
त्वेन संबन्ध: । ब्रह्मज्ञानं च अनर्थनिवर्तकमिति तस्य फल-

त्वं युक्तम् । तथा च अनर्थनिवर्तकब्रह्मज्ञानाय वेदान्तवाक्य-

विचारः कर्तव्य इत्यर्थः संपन्नः । अथ - शब्दश्च आनन्तयर्थिः ।
र्यार्थ: ।
तस्यैव च आनन्तर्यं वक्तव्यम्, यदनन्तरं वेदान्तवाक्यविचारे

प्रवृत्तिरवश्यं भवति । तादृशं च नाध्ययनादि, कृताध्यय-

नस्यापि तत्राप्रवृत्ते: ; किं तु विवेकादिसाधनचतुष्टयम्,

तदनन्तरमवश्यं तत्र प्रवृत्ते: । अतः अथ-शब्देन साधन-

चतुष्टयसंपत्त्यानन्तर्यमुच्यते । ननु न वेदान्तविचार एव

कर्तव्यः; सन्त्यनेकानि कर्माण्यविनाश्यफलसाधनानि, 'अ-

क्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति' 'अपाम

सोमममृता अभूम' इत्यादिश्रुतेः इत्येतच्छङ्कानिरासार्थमतः-

शब्द: । अयमर्थ:-

साधनचतुष्टय संपत्त्यनन्तरं वेदान्त-

वाक्यविचार एव कर्तव्यः, यतः कर्मफलानामनित्यत्वम्

'तद्यथेह कर्मचितो लोक: क्षीयत एवमेवामुत्र पुण्यचितो

लोकः क्षीयते' इत्यादिश्रुतिबलादवगम्यते । न च पूर्वश्रुति-

बलान्नित्यत्वमेव किं न स्यादिति वाच्यम् ; कृतकत्वाद्यनु-

मानानुगृहीतत्वेन 'आभूतसंप्लवं स्थानममृतत्वं हि भाष्यते

इत्यादिस्मृतिबलेन च एतस्याः श्रुतेर्बलवत्त्वात्, पूर्वश्रुतेश्चाक-

ल्पक्षयं नित्यत्वे तात्पर्यात् । तथा च अवश्यं वेदान्तविचार:
 
-
 

 
-