This page has not been fully proofread.

वेदान्तसार:

ave

 
'धूमात्' इति हेतुवाक्ये धूमपदं यथा ज्ञानलक्षकं पञ्च-
म्युपस्थापितहेतुत्वस्य धूमेऽनन्वयात्, तथा 'सामान्यवत्वे
सत्यस्मदादिबाह्यकरणप्रत्यक्षत्वात्' इत्यत्रापि तादृशप्रत्यक्ष-
त्वस्य हेतुविभक्त्युपस्थापितहेतुत्वेऽनन्वयाज्ज्ञाने लक्षणा व
क्तव्या। तादृशप्रत्यक्षत्वपदं यौगिकमेवेति न यौगिकस्य लक्ष-
कत्वमिति विरुद्धम्। वेदान्तिमतेऽपि पङ्कजादिपदानां ताम-
रसादौ योग एव, वृत्त्यन्तरकल्पने मानाभावात्, मण्डूका-
द्यपेक्षया झटिति तामरसप्रतीतिस्तु दशसु शक्तस्य धेन्वादेश्च
झटित्युपस्थापकस्य गोशब्दस्येव प्रयोगबाहुल्यात् । तामर-
सत्वं तु लक्षणया भासते, योगात्पङ्कजनिकर्तृत्वेनैव भानात् ।
वृत्त्यन्तरकल्पनातश्च लक्षणा युक्ता गङ्गापदस्येव तीरे ।
सा चेयं लक्षणा यौगिकपद एवेत्यस्त्येव यौगिकपद-
स्यापि लक्षकत्वम् । तस्माद्युक्तमुक्तं जिज्ञासापदेन ब्रह्म-
ज्ञानफलको विचारो लक्ष्यत इति । केचित्तु प्रकृत्या
साध्यावस्थानं लक्ष्यते, प्रत्ययेन च विचारो लक्ष्यत इति
लक्षणाभेदं वदन्ति । तन्न, लक्षणाद्वये मानाभावात्, एक-
यैव तु लक्षणयोपपत्तेरित्यस्मद्गुरव इति दिक् । ब्रह्मज्ञान-
फलकश्च विचारो वेदान्तवाक्यविचार एव, वेदान्तवाक्यैरे-
वाखण्डाद्वितीयब्रह्मप्रतिपादनात् । अतस्तेषामेव विचार्य-