This page has not been fully proofread.

वेदान्तसार:
 

 
ave
 

 
'धूमात्' इति हेतुवाक्ये धूमपदं यथा ज्ञानलक्षकं पञ्च-

म्युपस्थापितहेतुत्वस्य धूमेऽनन्वयात्, तथा 'सामान्यवत्वे

सत्य स्मदा दिबाह्यकरणप्रत्यक्षत्वात्' इत्यत्रापि तादृशप्रत्यक्ष-

त्वस्य हेतुविभक्त्युपस्थापितहेतुत्वेऽनन्वयाज्ज्ञाने लक्षणा व

क्तव्या । तादृशप्रत्यक्षत्वपदं यौगिकमेवेति न यौगिकस्य लक्ष-

कत्वमिति विरुद्धम् । वेदान्तिमतेऽपि पङ्कजादिपदानां ताम-

रसादौ योग एव, वृत्त्यन्तरकल्पने मानाभावात्, मण्डूका-

द्यपेक्षया झटिति तामरसप्रतीतिस्तु दशसु शक्तस्य धेन्वादेश्च

झटित्युपस्थापकस्य गोशब्दस्येव प्रयोगबाहुल्यात् । तामर-

सत्वं तु लक्षणया भासते, योगात्पङ्कजनिकर्तृत्वेनैव भानात् ।

वृत्त्यन्तरकल्पनातश्च लक्षणा युक्ता गङ्गापदस्येव तीरे ।

सा चेयं लक्षणा यौगिकपद एवेत्यस्त्येव यौगिकपद-

स्यापि लक्षकत्वम् । तस्माद्युक्तमुक्तं जिज्ञासापदेन ब्रह्म-

ज्ञानफलको विचारो लक्ष्यत इति । केचित्तु प्रकृत्या

साध्यावस्थानं लक्ष्यते, प्रत्ययेन च विचारो लक्ष्यत इति

लक्षणाभेदं वदन्ति । तन्न, लक्षणाद्वये मानाभावात्, एक-

यैवं तु लक्षणयोपपत्तेरित्यस्मद्गुरव इति दिक् । ब्रह्मज्ञान-

फलकश्च विचारो वेदान्तवाक्यविचार एव, वेदान्तवाक्यैरे.
-
वाखण्डाद्वितीयब्रह्मप्रतिपादनात् । अतस्तेषामेव विचार्य-