This page has been fully proofread twice.

इति पदमध्याहार्यम् । जिज्ञासापदाभिधेययोश्च ज्ञानेच्छयोरकर्त्तव्यत्वात्, ज्ञानस्येच्छोपसर्जनत्वाच्च ज्ञानस्य फलत्वलाभाय ब्रह्मज्ञानफलको विचारो जिज्ञासापदेन लक्ष्यते, जिज्ञासापदशक्यज्ञानेच्छयोर्विचारेण सह साध्यसाधनरूपसम्बन्धसत्त्वात्, गङ्गापदेनेव गङ्गापदशक्यप्रवाहसंबन्धि तीरम् । न च प्रकृतिप्रत्ययात्मकपदद्वयेन कथमेको विचारो लक्ष्यत इति वाच्यम् । 'सुप्तिङन्तं पदम्' इति मते एतस्यैकपदत्वात् । 'शक्तं पदम्' इति मतेऽपि न बाधकम्, 'वायुर्वै क्षेपिष्ठा देवता' इत्याद्यनेकपदघटितार्थवादैर्विध्याकाङ्क्षितप्राशस्त्यलक्षणात् । एतेन वाक्ये न लक्षणेत्यप्यपास्तम्, अर्थवादानां वाक्यत्वात्, लक्षणाबीजस्य पदवद्वाक्येऽपि तुल्यत्वाच्च । यत्तु शक्तस्यैव लक्षकत्वम्; न च वाक्ये शक्तिः, तस्याः पदधर्मत्वात्; अत एव जिज्ञासापदसमुदायेऽपि नैका लक्षणा, तस्य यौगिकत्वेनाशक्तत्वादिति, तन्न । शक्तस्यैव लक्षकत्वमित्यत्र मानाभावात्, मीमांसकमतेऽशक्तस्यापि वाक्यस्य वाक्यार्थलक्षकत्वाच्च, 'जातपुत्रः' इति यौगिकस्यापि पदस्यावस्थाविशेषलक्षकत्वाच्च । नैयायिकैरपि यौगिकस्य पदस्य लक्षकत्वाङ्गीकारात् । तन्मते ह्यतीतादौ व्यभिचारेण लिङ्गं नानुमितौ करणम्, किं तु तज्ज्ञानम् । एवं