This page has been fully proofread once and needs a second look.

इति पदमध्याहार्यम् । जिज्ञासापदाभिधेययोश्च ज्ञानेच्छयो-
रकर्त्तव्यत्वात् , ज्ञानस्येच्छोपसर्जनत्वाच्च ज्ञानस्य फलत्वला-
भाय ब्रह्मज्ञानफलको विचारो जिज्ञासापदेन लक्ष्यते, जिज्ञा-
सापदशक्यज्ञानेच्छयोर्विचारेण सह साध्यसाधनरूपसम्बन्ध-
सत्त्वात् , गङ्गापदेनेव गङ्गापदशक्यप्रवाहसमसंबन्धि तीरम् । न च
प्रकृतिप्रत्ययात्मकपदद्वयेन कथमेको विचारो लक्ष्यत इति वा-
च्यम् । '
च्यम् । 'सुप्तिङन्तं पदम् ' इति मते एतस्यैकपदत्वात् ।
'
'शक्तं पदम् ' इति मतेऽपि न बाधकम् , ' , 'वायुर्वै क्षेपिष्ठा
देवता ' इत्याद्यनेकपदघटितार्थवादैर्विध्याकाङ्क्षितप्राशम्त्यलक्ष-
स्त्यलक्षणात् । एतेन वाक्ये न लक्षणेत्यप्यपास्तम् , , अर्थवादानां
वाक्यत्वात् ,
वाक्यत्वात्, लक्षणाबीजस्य पदवद्वाक्येऽपि तुल्यत्वाच्च ।
यत्तु शक्तस्यैव लक्षकत्वम् ; न च वाक्ये शक्तिः , , तस्याः
पदधर्मत्वात् ; अत एव जिज्ञासापदसमुदायेऽपि नैका ल-
क्षणा , , तस्य यौगिकत्वेनाशक्तत्वादिति , तन्न । शक्तस्यैव
लक्षकत्वमित्यत्र मानाभावात् , मीमांसकमतेऽशक्तस्यापि वा-
क्यस्य वाक्यार्थलक्षकत्वाच्च, ' जातपुत्रः ' इति यौगिक-
स्यापि पदस्यावस्थाविशेषलक्षकत्वाच्च । नैयायिकैरपि यौगि-
कस्य पदस्य लक्षकत्वाङ्गीकारात् । तन्मते ह्यतीतादौ व्यभि-
चारेण लिङ्गं नानुमितौ करणम् , , किं तु तज्ज्ञानम् । एवं