This page has not been fully proofread.

बालबोधिनीसहितः ।
 

 
1
 

 
इति पदमध्याहार्यम् । जिज्ञासापदाभिधेययोश्च ज्ञानेच्छयो-
रकर्

रकर्त्
तव्यत्वात्, ज्ञानस्येच्छोपसर्जनत्वाञ्च्च ज्ञानस्य फलत्वला-

भाय ब्रह्मज्ञानफलको विचारो जिज्ञासापदेन लक्ष्यते, जिज्ञा-

सापदशक्यज्ञानेच्छयोर्विचारेण सह साध्यसाधनरूपसंसम्बन्ध-

सत्त्वात्, गङ्गापदेनेव गङ्गापदशक्यप्रवाहसंसमबन्धि तीरम् । न

प्रकृतिप्रत्ययात्मकपदद्वयेन कथमेको विचारो लक्ष्यत इति वा-

च्यम् । 'सुप्तिङन्तं पदम्' इति मते एतस्यैकपदत्वात् ।

'शक्तं पदम्' इति मतेऽपि न बाधकम्, 'वायुर्वै क्षेपिष्ठा

देवता' इत्याद्यनेकपदघटितार्थवादैर्विध्याकाङ्क्षितप्राशम्त्यलक्ष-

णात् । एतेन वाक्ये न लक्षणेत्यप्यपास्तम्, अर्थवादानां
वाक्यत्वात्

वाक्यत्वात्,
लक्षणाबीजस्य पदवद्वाक्येऽपि तुल्यत्वाच्च ।

यत्तु शक्तस्यैव लक्षकत्वम् ; न च वाक्ये शक्तिः, तस्याः

पदधर्मत्वात् ; अंत एव जिज्ञासापदसमुदायेऽपि नैका ल-

क्षणा, तस्य यौगिकत्वेनाशक्तत्वादिति, तन्न । शक्तस्यैव

लक्षकत्वमित्यत्र मानाभावात्, मीमांसकमतेऽशक्तस्यापि वा-

क्यस्य वाक्यार्थलक्षकत्वाच्च, 'जातपुत्रः' इति यौगिक-

स्यापि पदस्यावस्थाविशेषलक्षकत्वाच्च । नैयायिकैरपि यौगि-

कस्य पदस्य लक्षकत्वाङ्गीकारात् । तन्मते ह्यतीतादौ व्यभि-

चारेण लिङ्गं नानुमितौ करणम्, किंतु तज्ज्ञानम् । एवं
 

 
9
 

 

 
-
 

 
-