This page has been fully proofread twice.



शारीरकसूत्राणि च । अस्य वेदान्तप्रकरण-
त्वात्तदीयैरेवानुबन्धैस्तद्वत्तासिद्धेर्न ते पृथगा-
लोचनीयाः॥
 
तत्रानुबन्धो नामाधिकारिविषयसंवन्धप्र-
 
[Commentary]
 
ज्ञानमुच्यते; तस्य प्रमाणं कारणमित्यर्थः । तदनुसारीणि,
उपनिषदनुसारीणि, आत्मप्रतिपादकानीत्यर्थ: । क्वचित्तदुप-
कारीणीति पाठः। तत्रौपनिषदात्मनिर्णयार्थमपेक्षितन्याय-
प्रतिपादकानीत्यर्थः। शरीरमेव शरीरकम्, शरीरके भवः
शारीरको जीव:, तमधिकृत्य प्रवृत्तानि सूत्राणि 'अथातो
ब्रह्मजिज्ञासा' इत्यादीनि च वेदान्त इत्यर्थः। ननु प्रेक्षा-
वत्प्रवृत्त्यर्थमनुबन्धचतुष्टयं वक्तव्यम्, तत्राह-अस्येति ।
अस्य प्रारिप्सितस्य ग्रन्थस्य। तदीयैः, वेदान्तीयैरित्यर्थः ॥
 
ननु तस्यापि के अनुबन्धा इत्याशङ्क्य तान्वक्तुं सामान्य-
तस्तावदनुबन्धानाह– तत्रेति । पुरुषमनुबध्नाति स्वज्ञानेन
प्रेरयतीत्यनुबन्धः। विषयादीनि च तादृशानीति भावः । ननु
वक्ष्यमाणमनुबन्धचतुष्टयं वेदान्तस्येत्यत्र किं मानमिति चेत्,
शृणु --- 'अथातो ब्रह्मजिज्ञासा' इति सूत्रेण सूत्रितत्वमेव
मानम्। तथा हि — अस्मिन्सूत्रे तावत्साकाङ्क्षत्वात् 'कर्तव्या'
 
1