This page has been fully proofread twice.

॥ वेदान्तसारः ॥
 
 
 
अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम्
आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥ १ ॥
 
अर्थतोऽप्यद्वयानन्दानतीतद्वैतभानतः ।
 
गुरूनाराध्य वेदान्तसारं वक्ष्ये यथामति ॥ २ ॥
 
वेदान्तो नामोपनिषत्प्रमाणं तदनुसारीणि
 
[commentary]
 
अनन्तगुणसंपन्नमनन्तभजनप्रियम् ।
अनन्तरूपिणं वन्दे गुरुमानन्दरूपिणम् ॥ १ ॥
 
आपदेवेन वेदान्तसारतत्त्वस्य दीपिका ।
सिद्धान्तसम्प्रदायानुरोधेन क्रियते शुभा ॥ २ ॥
 
प्रतिज्ञातं वेदान्तपदं व्याचष्टे-- वेदान्त इति । उप-
निषद्रूपमात्मन: प्रमाणमित्यर्थः । यद्वा, उपनिषच्छब्देनात्म-