This page has been fully proofread once and needs a second look.

॥ वेदान्तसारः ॥
 

 

 

 
अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम्

आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥ १ ॥
 

 
अर्थतोऽप्यद्वयानन्दानतीतद्वैतभानतः ।
 

 
गुरूनाराध्य वेदान्तसारं वक्ष्ये यथामति ॥ २ ॥
 

 
वेदान्तो नामोपनिषत्प्रमाणं तदनुसारीणि
 

 
अनन्तगुणसंपन्नमनन्तभजनप्रियम् ।

अनन्तरूपिणं वन्दे गुरुमानन्दरूपिणम् ॥ १ ॥
 

 
आपदेवेन वेदान्तसारतत्त्वस्य दीपिका ।

सिद्धान्तसंप्रदायानुरोधेन क्रियते शुभा ॥ २ ॥
 

 
प्रतिज्ञातं वेदान्तपदं व्याचष्टे - वेदान्त इति । उप-

निषद्रूपमात्मन: प्रमाणमित्यर्थः । यद्वा, उपनिषच्छब्देनात्म-

* V1