This page has not been fully proofread.

॥ युद्धकाण्डः ॥
 
श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम् ।
रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥
 
Hearing the words of Hanuman, spoken
so truly, Rama became delighted and said
in reply these words:
 
अस्मिन् मुहूर्ते सुग्रीव प्रयाणमभिरोचय ।
युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः ॥
 
"O Sugriva, do you approve (our) depar-
ture at this muhurta; for this is an auspi-
cious muhurta for victory, as the sun is
at his meridian."
 
राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः ।
व्यादिदेश महावीर्यान् वानरान् वानरर्षभः ॥
समावृत्य महीं कृत्स्नां जगाम महवी चमूः ॥