This page has been fully proofread once and needs a second look.

चक्रं पाणौ यस्य तस्य । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' (२.२.३६)
इति वार्तिकात् पाणिशब्दस्य परनिपातः । [^१]श्रीविष्णोर्गुणगणविरहं सत्य-
सङ्कल्पत्वादिकल्याणगुणसधैर्विरहं वियोगं जीवतां जीवभावं च अधि-
कृत्य उद्दिश्य । सतां सज्जीविनां चेतसः चित्तस्य क्रकचमिव करपत्रमिव
स्थितम् । दुष्टाः वेदविरुद्धाः तर्काः यस्मिंस्तत् । कष्टशास्त्रं शोकदायिशास्त्रं
चक्रे कृतवान् ॥ २९ ॥
 
( स्तुतिचं.) तत्र गदाघातेन देहादुत्क्रामितानां क्रोधवशा इति गणशोऽ-
भिहितानां असतामधिपतिः । अक्रमात् क्रमं विहाय । युगपदिति यावत् ।
निष्क्रियार्थं वैरनिर्यातनार्थम् । भूमण्डलमागत्य सतां चेतसः क्रकचमिव
कष्टप्रदं शास्त्रं चक्रे । हरेर्गुणाभावं जीवभावं च प्रतिपादयत् । 'क्रकचं करपत्रं
स्यात्' इति च । 'ಗರಗಸ' इति भाषायाम् । 'कीटे च कृमिवत् क्रिमिः'
इति चान्यत्र ॥ २९ ॥
 
तदुष्प्रेक्षानु-सारात् कतिपय-कु-नरैरादृतोऽन्यैर्वि-सृष्टो
ब्रह्माहं निर्गुणोऽहं वितथमिदमिति ह्येष पाषण्ड-वादः ।
तद्युक्त्याभास-जाल-प्रसर-विष-तरूद्दाह-दक्ष-प्रमाण-
ज्वाला- माला- धरोऽग्निः[^2] पवन विजयते तेऽवतारस्तृतीयः ॥
॥ ३० ॥
 
(कविक.) कष्टशास्त्रं चक्र इत्युक्तम् । तत्र किं प्रतिपाद्यम्? कैरङ्गी-
कृतम्? कैर्नाङ्गीकृतम्? इत्याशङ्कायां तत्सर्वं स्पष्टमाचक्षाणः श्रीवायोस्तृती-
यावतारविजयमाह– तद्दुष्प्रेक्षानुसारादिति । ब्रह्माहं न जीवः । जीवभाव-
स्याविद्यामूलत्वात् । अविद्यानिवृत्तौ ब्रह्मैव निर्गुणोऽहं कर्तृत्वभोक्तृत्वादि-
गुणरहितोऽहम् । इदं परिदृश्यमानं जगत् वितथं मिथ्या इत्येष पाषण्ड-
वादः पाषण्डप्रलापः । 'सत्य आत्मा सत्यो जीवः सत्यं भिदा सत्यं भिदा
 
[^१] 'चक्रपाणे: श्रीविष्णोः' इति पा. ।
 
[^२] ' – मालाधराग्निः' इति क्वचित् ।