This page has been fully proofread once and needs a second look.

श्लो. ३०
 
चक्रं पाणौ यस्य तस्य । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' (२.२.३६)

इति वार्तिकात् पाणिशब्दस्य परनिपातः । '[^१]श्रीविष्णोर्गुणगणविरहं सत्य-

सङ्कल्पत्वादिकल्याणगुणसधैर्विरहं वियोगं जीवतां जीवभावं च अधि-

कृत्य उद्दिश्य । सतां सज्जीविनां चेतसः चित्तस्य क्रकचमिव करपत्रमिव

स्थितम् । दुष्टाः वेदविरुद्धाः तर्काः यस्मिंस्तत् । कष्टशास्त्रं शोकदायिशास्त्रं

चक्रे कृतवान् ॥ २९ ॥
 

 
( स्तुतिचं.) तत्र गदाघातेन देहादुत्क्रामितानां क्रोधवशा इति गणशोऽ-

भिहितानां असतामधिपतिः । अक्रमात् क्रमं विहाय । युगपदिति यावत् ।

निष्क्रियार्थं वैरनिर्यातनार्थम् । भूमण्डलमागत्य सतां चेतसः क्रकचमिव

कष्टप्रदं शास्त्रं चक्रे । हरेर्गुणाभावं जीवभावं च प्रतिपादयत् । 'क्रकचं करपत्रं
स्यात्' इति च । 'ठ

स्यात्' इति च । 'ಗರಗಸ
' इति भाषायाम् । 'कीटे च कृमिवत् क्रिमिः'

इति चान्यत्र ॥ २९ ॥
 

 
तदुष्प्रेक्षानु-सारात् कतिपय -कु-नरैरादृतोऽन्यैर्वि-सृष्टो
-कु-

ब्रह्माहं निर्गुणोऽहं वितथमिदमिति ह्येष पाषण्ड-वादः ।

तद्युक्त्याभास-जाल-प्रसर - -विष- तरूद्दाह-दक्ष-प्रमाण-

ज्वाला- माला- धरोऽग्निः'[^2] पवन विजयते तेऽवतारस्तृतीयः ॥
 

॥ ३० ॥
 

 
(कविक.) कष्टशास्त्रं चक्र इत्युक्तम् । तत्र किं प्रतिपाद्यम्? कैरङ्गी-

कृतम्? कैर्नाङ्गीकृतम्? इत्याशङ्कायां तत्सर्वं स्पष्टमाचक्षाणः श्रीवायोस्तृती-

यावतारविजयमाह– तद्दुष्प्रेक्षानुसारादिति । ब्रह्माहं न जीवः । जीवभाव-

स्याविद्यामूलत्वात् । अविद्यानिवृत्तौ ब्रह्मैव निर्गुणोऽहं कर्तृत्वभोक्तृत्वादि-

गुणरहितोऽहम् । इदं परिदृश्यमानं जगत् वितथं मिथ्या इत्येष पाषण्ड-

वादः पाषण्डप्रलापः । 'सत्य आत्मा सत्यो जीवः सत्यं भिदा सत्यं भिदा

 
[^
.] 'चक्रपाणे: श्रीविष्णोः' इति पा. ।

 
[^
.] ' – मालाधराग्निः' इति क्वचित् ।
 
28