This page has been fully proofread once and needs a second look.

श्लो.२८-२९
 
५३
 
पोथयामासिथ मारयाञ्चकर्थ । उत्पथस्थान् उन्मार्गवर्तिनः । अतथ्यं मिथ्या-

भूतम् । मिथ्यात्वमुच्यते येन तन्मिथ्यात्ववचनम् । विश्वं मिथ्या दृश्यत्वात्

शुक्तिकारजतवदित्यादिकम् । तदेव वचनं भाषितं येषां तान् । अत्रायम-

भिप्रायः- वृश्चिकभयात्पलायमानस्य महासर्पमुखपतनमिव स्वपक्षसाधन-

पारमार्थ्यानभ्युपगमे वादानधिकारमजानाना ब्रह्मव्यतिरिक्तमिथ्यात्ववादिनः

सर्वशून्यवादिनश्च, 'भवद्भिर्जगन्मिथ्यात्वसाधकं वचनमुक्तम्, तन्मिथ्या सत्यं

वा' इति विकल्पे सत्यत्वेऽद्वैतभङ्गप्रसङ्ग इत्यतथ्यमेव वदन्तीति । अन्यान्

सत्वरत्वात् तूर्णं प्राप्य । 'सत्वरं चपलं तूर्णम्' इत्यमरः । 'कर्मणि ल्यब्लोपे

पञ्चमी वक्तव्या'[^१] इति पञ्चमी । उन्मथ्य भङ्क्त्त्वा । स्वप्रियायै स्वकलत्राय

द्रौपद्यै प्रियतमकुसुमं इष्टतमपुष्पं[^२] प्रायच्छः प्रादाः । प्रपूर्वात् 'दाणू दाने '

इत्यस्माद्धातोर्लङि 'पाघ्रा–'(अ.सू.७.३.७८) इत्यादिना यच्छादेशः । तस्मै

ते तुभ्यं नमः ॥ २८ ॥
 

 
( स्तुतिचं.) प्रपन्नानां शरणमाश्रयं ददातीति शरणदः । शरणं भव-

तरणोपायं दर्शयति, शरणं मुक्तिगृहं ददाति, शरणं जगद्रक्षितारं मुकुन्दं

ददाति वा । 'उपाये गृहरक्षित्रोः शब्दः शरणमित्ययम् । वर्तते–' इत्यहि-

र्बुध्यसंहितायम् । आटोप इत्यवलेपः । 'गर्वो भवेदहङ्कारः । आवेशः संवेगः

संरम्भः सम्भ्रमस्तथाऽऽटोपः' इत्यभिधानम् । बह्लीः कोटीरटीकः । प्रतीकर्तुम-

गच्छ: । टीकृ गतौ । अनियतमात्मनेभाषत्वम् । आमनन्ति च सर्वस्मादुभयं

पदम् । शत्रुहननं च न स्वप्रयोजनाय । किन्तु सतामुपकारायेत्यनेन

सूचयति । विदितव्याकरणानां नियमभङ्गोऽपि विच्छित्तिमादधाति । विदित-

 
शत्रनुपपत्तिं शङ्कमानो व्याचख्यौ च रुचिपति:-'आत्मनेपदविधेरनित्यत्वात् । सचतीत्यादिप्रयोगस्य

दृष्टत्वात्' इति ।
 

 
१. 'पञ्चमीविधाने ल्यब्लोपे कर्मण्युपसङ्ख्यानम्' (२.३.२८) इति जयादित्यपरिगृहीतो वार्तिकपाठः ।

'ल्यब्लोपे कर्मण्यधिकरणे च' इति भट्टोजिः । अज्ञातमूलपाठमनियतपाठं वार्तिकं भवति।

 
[^२]
'प्रियतमकुसुमं प्रायच्छः' इति पा. ।
 
२.
 
27