2023-02-17 11:03:17 by ambuda-bot
This page has not been fully proofread.
बायुस्तुतिः
(स्तुतिचं.) 'सौगन्धिकं तु कल्हारम्' इति च । येन कलितहाराणीव सरांसि
विलसन्ति । '२३¸८७७' इति भाषायाम् । अच्छस्य स्वभावतो जरादि-
विधुरस्य हनुमतः । स तु हनुमान् । अमुं भीमम् । उरुवपुषा हेतुना । भीमः
पुच्छमुद्धर्तुं नाशकदिति, हनुमांश्च तमुरुवपुषा भीषयामासेत्येतत् सर्वं
पूर्णज्ञानबलयोस्तव वपुषोः क्रीडामात्रम् । ओजः सर्वाभिभवशक्तिः । सा
च क्रीडा सुधियामानन्दाय मोहाय चेतरेषाम् ॥ २७ ॥
-
बह्वीः कोटीरटीकः कुटिल-कटु-मतीनुत्कटाटोप- कोपान्
द्राक् च त्वं सत्वर - त्वाच्छरण- द गदया पोथयामासिथारीन् ।
उन्मथ्यातथ्य-मिथ्यात्व-वचन-वचनानुत्पथ-स्थांस्तथाऽन्यान्
प्रायच्छः स्व-प्रियायै प्रियतम कुसुमं प्राण तस्मै नमस्ते ॥
॥ २८ ॥
-
(कविक.) सौगन्धिकाहरणसमये त्वयाऽनेककोटिराक्षसान् गदायुद्धे निह-
त्यान्यान् दुर्मार्गवर्तिनस्तर्कैर्न्यकृत्य प्रियायै सौगन्धिककुसुमं प्रादायीति विज्ञा-
पयन् प्रणतिं वितनुते- बह्वीरिति । शरणं रक्षकं श्रीविष्णुं ददाति दर्शयति
यस्तस्य सम्बुद्धिः शरणदौं । 'शरणं गृहरक्षित्रोः' इत्यमरः । हे प्राण
श्रीवायो । यस्त्वं बह्वीः अनेकाः कोटीः सङ्ख्याः । कुटिला वक्रा कटुः क्रूरा
मतिर्बुद्धिर्येषां तान् । उत्कटी प्रवृद्धी आटोपः सम्भ्रमः कोपः क्रोधश्च येषां
तान् । 'सम्भ्रमाटोपसंरम्भाः" इति यादवः । अरीन् वैरिणः । द्राक् शीघ्रम् ।
अटीकः प्रहर्तुमगच्छः। 'टीकृ गतौ' इत्यस्माल्लुङ् । तथा तेन प्रकारेण गदया
३
१. 'शरणद रक्षक' इति पा ।
२.
'आटोपावेगसरम्भसम्भ्रमाः' इति तु सम्प्रत्युपलभ्यमानो वैजयन्तीकोशपाठः ।
३. यद्यपि टीकतेरात्मनेभाषत्वात् 'अटीकिष्ठाः' इति वक्तव्यम् । अथापि 'अटीकः' इत्याह । अत्र द्वयी
गतिः। 'युद्भ्यो लुङि' (अ.सू. १.३.९१) इति द्युतादिषु टीकृधातुरपि पठनीयः । तेन लुङि परस्मैभाषत्वे
'अटीकत्' इति रूपमिति । तदेतदाह-'टीकृगतावित्यस्मालुङ्' इति । अथवा किमनेन । सर्वस्मादुभयं
पदमिति तु सर्वौषधम् । तथाहि मुरारि:- 'प्रत्यासन्नतुषारदीधितकरक्लिश्यत्-' इत्यादि । तत्र क्लिश्यतेः