This page has been fully proofread once and needs a second look.

बायुस्तुतिः
 
(स्तुतिचं.) 'सौगन्धिकं तु कल्हारम्' इति च । येन कलितहाराणीव सरांसि

विलसन्ति । '२३¸८७७ಚೆನ್ನೈದಿಲೆ' इति भाषायाम् । अच्छस्य स्वभावतो जरादि-

विधुरस्य हनुमतः । स तु हनुमान् । अमुं भीमम् । उरुवपुषा हेतुना । भीमः

पुच्छमुद्धर्तुं नाशकदिति, हनुमांश्च तमुरुवपुषा भीषयामासेत्येतत् सर्वं

पूर्णज्ञानबलयोस्तव वपुषोः क्रीडामात्रम् । ओजः सर्वाभिभवशक्तिः । सा

च क्रीडा सुधियामानन्दाय मोहाय चेतरेषाम् ॥ २७ ॥
 
-
 

 
बह्वीः कोटीरटीकः कुटिल-कटु-मतीनुत्कटाटोप- कोपान्

द्राक् च त्वं सत्वर - -त्वाच्छरण- द गदया पोथयामासिथारीन् ।

उन्मथ्यातथ्य-मिथ्यात्व-वचन-वचनानुत्पथ-स्थांस्तथाऽन्यान्

प्रायच्छः स्व-प्रियायै प्रियतम कुसुमं प्राण तस्मै नमस्ते ॥
 

॥ २८ ॥
 
-
 

 
(कविक.) सौगन्धिकाहरणसमये त्वयाऽनेककोटिराक्षसान् गदायुद्धे निह-

त्यान्यान् दुर्मार्गवर्तिनस्तर्कैर्न्यकृत्य प्रियायै सौगन्धिककुसुमं प्रादायीति विज्ञा-

पयन् प्रणतिं वितनुते- बह्वीरिति । शरणं रक्षकं श्रीविष्णुं ददाति दर्शयति

यस्तस्य सम्बुद्धिः शरणदौंद[^1] । 'शरणं गृहरक्षित्रोः' इत्यमरः । हे प्राण

श्रीवायो । यस्त्वं बह्वीः अनेकाः कोटीः सङ्ख्याः । कुटिला वक्रा कटुः क्रूरा

मतिर्बुद्धिर्येषां तान् । उत्कटी प्रवृद्धी आटोपः सम्भ्रमः कोपः क्रोधश्च येषां

तान् । 'सम्भ्रमाटोपसंरम्भाः"[^2] इति यादवः । अरीन् वैरिणः । द्राक् शीघ्रम् ।

अटीकः प्रहर्तुमगच्छः। 'टीकृ गतौ' इत्यस्माल्लुङ्[^3] । तथा तेन प्रकारेण गदया
 

 

 
[^
.] 'शरणद रक्षक' इति पा
 
.
 

 
[^2]
'आटोपावेगसरम्भसम्भ्रमाः' इति तु सम्प्रत्युपलभ्यमानो वैजयन्तीकोशपाठः ।
 

 
[^
.] यद्यपि टीकतेरात्मनेभाषत्वात् 'अटीकिष्ठाः' इति वक्तव्यम् । अथापि 'अटीकः' इत्याह । अत्र द्वयी

गतिः। 'युद्भ्यो लुङि' (अ.सू. १.३.९१) इति द्युतादिषु टीकृधातुरपि पठनीयः । तेन लुङि परस्मैभाषत्वे

'अटीकत्' इति रूपमिति । तदेतदाह-'टीकृगतावित्यस्मालुङ्' इति । अथवा किमनेन । सर्वस्मादुभयं

पदमिति तु सर्वौषधम् । तथाहि मुरारि:- 'प्रत्यासन्नतुषारदीधितकरक्लिश्यत्-' इत्यादि । तत्र क्लिश्यतेः