This page has not been fully proofread.

श्लो.२७
 
गच्छन् सौगन्धिकार्त्यं पथि स हनुमतः पुच्छमच्छस्य भीमः
प्रोद्धर्तुं नाशकत् स त्वमुमुरु- वपुषा भीषयामास चेति ।
 
पूर्ण ज्ञानौजसोस्ते गुरु-तम वपुषोः श्रीमदानन्दतीर्थ
क्रीडा - मात्रं तदेतत् प्रमदद सु - धियां मोहक द्वेष-भाजाम् ॥
 
॥ २७ ॥
 
-
 
(कविक.) प्रियाप्रीत्यर्थं सौगन्धिककुसुममानेतुं गच्छतो मध्येमार्गं हनुमतः
पुच्छमुद्धर्तुमशक्तिं तन्महाकायतो भीतिं च नटयतः श्रीभीमस्य तन्नटनं विदुषां
हर्षार्थं द्वेषिणां मोहार्थं चेत्याह- गच्छन्निति । सौगन्धिकार्थं सौगन्धिका-
हरणार्थं गच्छन् सः भीमः । पथि मार्गे । अच्छस्य स्वच्छस्य हनुमतः
हनुमदवतारस्य । पुच्छं वालम् । प्रोद्धर्तुं प्रकर्षेणोन्नमयितुं नाशकत् अश-
क्तोऽभूदिति यत् । 'शक् शक्तौ' इत्यस्माद्धातोर्लुङ् । दित्वादङ् । उरु-
वपुषा महाकायेनोपलक्षितः सः हनुमान् अमुं श्रीभीमं भीषयामास चेति
यत् । भीतिं प्रापितवानित्यर्थः । 'ञिभी भये' इत्यस्माद्धातोः 'हेतुमति च'
(अ.सू.३. १.२६) इति णिचि 'भियो हेतुभये षुक्' (अ.सू. ७.३.४०)
इति षुगागमः । अत एव वपुषेतीत्थम्भूतलक्षणे तृतीया । न करणे । यदि
करणे तृतीया स्यादुरु॑वपुर्भयस्य करणं स्यान्न हेतुः प्रयोजकः ं । तदेतत्
द्वेषभाजां द्वेषं भजतां मोहक भ्रामक । सुधियां तत्वज्ञानवतां प्रमदद
प्रकृष्टानन्दद । गुरुतम गुरुश्रेष्ठ । हे श्रीमदानन्दतीर्थ । ते तव सम्ब-
न्धिनोः । पूर्णज्ञानौजसोः । पूर्णे सम्पूर्ण ज्ञानौजसी ज्ञानबले ययोस्तयोर्वपुषोः
अवतारयोः । क्रीडामात्रं क्रीडैव लीलैव ॥ २७ ॥
 

 

 
१. 'स्यात् तदानीमुरुवपुर्भयस्य' इति पा.।
 
२. प्रयोजकत्वार्थ एव पुग्विधानादन्यथा षुगप्रसक्तेरिति भावः । 'समुद्रलङ्घने यादृक् स्थूलशरीरं धृतं
तादृशस्थूलशरीरेण भीषयामास' इति केचिद् व्याचक्षते । तदात्वे भाययामासेत्येव रूपं स्यान्न भीष-
यामासेति।
 
26