2023-02-22 13:58:06 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
प्रोद्धर्तुं नाशकत् स त्वमुमुरु-
पूर्ण ज्ञानौजसोस्ते गुरु-तम वपुषोः श्रीमदानन्दतीर्थ
क्रीडा
॥ २७ ॥
-
(कविक.) प्रियाप्रीत्यर्थं सौगन्धिककुसुममानेतुं गच्छतो मध्येमार्गं हनुमतः
पुच्छमुद्धर्तुमशक्तिं तन्महाकायतो भीतिं च नटयतः श्रीभीमस्य तन्नटनं विदुषां
हर्षार्थं द्वेषिणां मोहार्थं चेत्याह- गच्छन्निति । सौगन्धिकार्थं सौगन्धिका-
हरणार्थं गच्छन् सः भीमः । पथि मार्गे । अच्छस्य स्वच्छस्य हनुमतः
हनुमदवतारस्य । पुच्छं वालम् । प्रोद्धर्तुं प्रकर्षेणोन्नमयितुं नाशकत् अश-
क्तोऽभूदिति यत् । 'शक् शक्तौ' इत्यस्माद्धातोर्लुङ् । दित्वादङ् । उरु-
वपुषा महाकायेनोपलक्षितः सः हनुमान् अमुं श्रीभीमं भीषयामास चेति
यत् । भीतिं प्रापितवानित्यर्थः । 'ञिभी भये' इत्यस्माद्धातोः 'हेतुमति च'
(अ.सू.३. १.२६) इति णिचि 'भियो हेतुभये षुक्' (अ.सू. ७.३.४०)
इति षुगागमः । अत एव वपुषेतीत्थम्भूतलक्षणे तृतीया । न करणे । यदि
करणे तृतीया स्यादु
द्वेषभाजां द्वेषं भजतां मोहक भ्रामक । सुधियां तत्वज्ञानवतां प्रमदद
प्रकृष्टानन्दद । गुरुतम गुरुश्रेष्ठ । हे श्रीमदानन्दतीर्थ । ते तव सम्ब-
न्धिनोः । पूर्णज्ञानौजसोः । पूर्णे सम्पूर्ण ज्ञानौजसी ज्ञानबले ययोस्तयोर्वपुषोः
अवतारयोः । क्रीडामात्रं क्रीडैव लीलैव ॥ २७ ॥
२
।
[^१
[^२
तादृशस्थूलशरीरेण भीषयामास' इति केचिद् व्याचक्षते । तदात्वे भाययामासेत्येव रूपं स्यान्न भीष-
यामासेति।
26