This page has been fully proofread once and needs a second look.

वायुस्तुतिः
 
कृष्णौ। 'सरूपाणामेकशेषः–'(अ.सू.१.२.६४) इत्येकशेषः । कृष्णाविति

नामनी । तयोरास्पदाभ्यां कृष्णशब्दवाच्याभ्यामित्यर्थः । 'कृष्णाख्याः शम-

नव्यासधनञ्जयजनार्दनाः' इति विश्वः'[^१] । ब्रह्मभ्यां ब्रह्मशब्दवाच्याभ्याम् ।

ब्रह्मशब्दश्च विष्णावेव । 'यमन्तः समुद्रे कवयोऽवयन्ति यदक्षरे परमे

प्रजाः । यतः प्रसूता जगतः प्रसूती तोयेन जीवान् व्यससर्ज भूम्याम् । तदेवर्तं

तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्' इति श्रुतिः ।
 

 
'ब्रह्मशब्दः परे विष्णौ नान्यत्र क्वचिदिष्यते ।

'असम्पूर्णाः परे यस्मादुपचारेण वा भवेत् ॥'

'ब्रह्मेति परमात्मेति भगवानिति शब्द्बचते ।'

'वासुदेवात्मकं ब्रह्म मूलमन्त्रेण वा यतिः[^२] ॥'
 
R
 

 
इत्यादिषु तस्मिन्नेव प्रसिद्धः । याभ्यां शुश्रूषुः सेवाकरणेच्छुः आसीः । तुभ्यं

श्रीभीमाय च । क्षेमदेभ्यः सुखदेभ्यः[^३] । सरसिजविलसल्लोचनेभ्यः ।

सरसिजवत् अम्भोजवत् विलसती शोभमाने लोचने येषां तेभ्यः कृष्णव्या-

सभीमेभ्यः नमोऽस्तु । 'नमःस्वस्ति–' (अ.सू.२.३.१६) इत्यादिना नमः

शब्दयोगे[^४] चतुर्थी ॥ २६ ॥
 

 
(स्तुतिचं.) कुरुकुलजनने भीमावतारे । क्षत्रेण वसुदेवेन विप्रेण पराशरेण

चोद्भूताभ्याम् । क्षत्रिय इति विप्र इति च लोकैरुदिताभ्याम् । ज्ञानानन्द-

मयेन स्वरूपवपुषा बृंहिताभ्यामत एव मुख्यवृत्त्या ब्रह्मपदवाच्याभ्याम् ।

यादवकृष्ण इति वासिष्ठकृष्ण इति च कृष्णनामास्पदाभ्याम् । निर्भेदाभ्यामथापि

विशेषबलाद् द्विवचनविषयाभ्याममूभ्यां भगवद्रूपाभ्याम् । रूपद्वयशुश्रूषवे

तुभ्यं चास्तु नमः ॥ २६ ॥
 

 
[^
.] नेदं विश्वकोशे पठ्यते ।
 

 
[^
.] 'सुखप्रदेभ्य:' इति पा. ।
 
-
 

 
[^
.] '–मन्त्रेण चोच्यते' इति पा. ।

 
[^
.] 'नमःशब्दयोगात्' इति पा
 
. ।