2023-02-22 13:49:38 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
२६
ब्रह्मभ्यां बृंहिताभ्यां चिति-सुख वपुषा कृष्ण नामास्पदाभ्याम् ।
निर्भेदाभ्यां विशेषाद् द्वि-वचन-विषयाभ्याममूभ्यामुभाभ्यां
तुभ्यं च क्षेम-देभ्यः सरसिज-विलसल्लोचनेभ्यो नमोऽस्तु ॥ २६ ॥
(कविक.) अत्र श्रीनारायण एव कृष्णत्वेनावतीर्णो व्यासस्त्वन्यो महा-
मुनिरिति
भीमावतार इति प्रकटयन् तेभ्यः प्रणमति- याभ्यामिति । हे श्रीवायो, कुरु-
कुलजनने कुरुवंशप्रादुर्भावे । क्षत्रविप्रोदिताभ्याम् । क्षतात् त्रायत इति
क्षत्रम् । क्षत्रेण क्षत्रियत्वेन । विप्रेण विप्रत्वेन । उदिताभ्यां प्रादु-
र्भूताभ्याम् । चितिसुखवपुषा ज्ञानानन्दस्वरूपेण बृंहिताभ्यां प्रवृद्धाभ्याम् ।
तथा च श्रुति:– 'आ पादत आ प्रणखात्सर्व एवाऽनन्दः'
च भगवता बादरायणेन- 'आनन्दमयोऽभ्यासात्' इति । अभियुक्तवचनं च
-
ช
'सुखोल्लेखैरेव स्वरसमधुरैः साधुचरितः
'शुभस्तोमैरेव स्तुतिसमुचितैः सम्भृततनुः ।
'प्रभागुम्फैरेव प्रकृतिसुभगैः प्राप्तगरिमा
'कृपापूरैरेव स्फुटमुपचितः काकुळपतिः' इति ।
निर्भेदाभ्यां भेदरहिताभ्याम् । 'मस्त्यकूर्मवराहाश्च....' इत्यारभ्य 'नैषां भेदः
कथञ्चन' इत्यन्तेन सार्धंश्लोकत्रयेण श्रीमदाचार्यैः श्रीमहाभारततात्पर्यनिर्णये
द्वितीयाध्याये कृष्णव्यासादीनां स्वरूपाभेदः प्रतिपादितः । विशेषात् द्विव-
चनविषयाभ्यां कृष्णव्यासेति[^४] वचनद्वयवाच्याभ्याम्[^५] । अमूभ्यां मानसप्रत्य-
क्षाभ्यां उभाभ्यां द्वाभ्याम् । कृष्णनामास्पदाभ्याम् । कृष्णश्च कृष्णश्च
[^१
[^२] 'तत्सेवनार्थम्' इति पा.
[^३
[^४]. 'कृष्णव्यासाविति' इति तु स्वरसः पाठः ।
.
[^५] '-द्वयविषयाभ्याम्' इति पा. ।
25