This page has been fully proofread once and needs a second look.

बायुस्तुतिः
 
(कविक.) अनाद्यविद्यानिवृत्तिं सुविद्याप्राप्तिं च प्रार्थयते – द्रुह्यन्तीमिति ॥

हे विद्यासमुद्र तत्वज्ञानरत्नाकर । सुविद्या अध्यात्मविद्या । सैव द्रविणं

धनम् । तद् ददातीति सुविद्याद्रविणद । पूर्वभीम प्राक् भीमसेनावतार ।

अनिल श्रीवायो । द्रौपदीति विदिता विख्याता । तदुक्तम्- ' सा द्रौपदी नाम

बभूव भूमौ' इति । रुद्रपन्याधुद्रिक्ता । रुद्रपत्नी पार्वती । सा आदिर्यासां
'

[^१]
सौपर्णीवारुण्यादीनाम् । ताभ्यः उद्रिक्ता उत्कृष्टा । अथवा रुद्रपत्नी

आदिर्यासां शच्यादीनाम् । ताभिरुद्रिक्ता उत्कर्षं प्राप्ता । तच्छरीरे`[^२] तासा-

मभिमानसद्भावात् । या ते दयिता प्रिया वाग्देवी भारती सा । द्रुह्यन्तीं द्रोहं

कुर्वाणाम् । हृदि रोहतीति हृद्रुट् ताम् । द्रावयन्तीं इतस्ततो धनाद्यादित्सया

गमनं कारयन्तीम् । अविद्यानिद्रां अज्ञानतन्द्रीम् । ते तव आज्ञया । द्रुतं शीघ्रं

यथा भवति तथा । विद्राव्य शमयित्वा छित्वा वा । अथ अनन्तरं मां

सद्योरचनपटुं आशुकविताकरणकुशलं आपाद्य कृत्वा । द्राक् झटिति । 'द्राग्

झटित्यञ्जसाऽह्नाय' इत्यमरः । अभद्रात् अशुभात् । बलात् बलात्कारेण रहयतु

वियोजयतु ॥ २५ ॥
 
४८
 

 
(स्तुतिचं.) द्रुह्यन्तीं हृद्रुहम् । रुह जन्मनि । मम हृदि जातामौरसीम् ।

अथापि मह्यं द्रुह्यन्तीम् । या सदाऽभीष्टं विरुरुत्सति, अप्रियमेव सम्प्रापिप-

यिषति । तदिदं व्यापादनं नाम । 'अपकारो भवेद् द्रोहः' इति च । इतस्ततो

मां बलादिव विषयविषगर्ते द्रावयन्तीं धावयन्तीं अविद्यानिद्राम् । निद्रा

हि स्वापयति । इयमहो धावयति । या मां विद्रावयामास तामेव विद्राव्य

अथ मां सद्यः काव्यशास्त्ररचनपटुं विधाय, विशिष्य च हरिगुरुस्तवन-

पटुम् । द्रागभद्राद् विरहयतु त्याजयतु । का? या द्रौपदीति विदिता । भार्या

तव, आचार्यानी मम । हे विद्यासमुद्र पूर्वभीम, तवाऽज्ञया मयि जाता-

नुकम्पा ॥ २५ ।॥
 

 
[^
.] 'सुपर्णीवारुण्यादीनाम्' इति सूक्तम् । प्रायो लिपिकृत् प्रममाद ।
 

 
[^
.] 'तस्याः शरीरे' इति पा ।