This page has been fully proofread once and needs a second look.

श्लो.२५
 
विनाशने सुनिपुणः अतिकुशलस्तं रणं युद्धम् । यस्य सर्वोत्तमस्य श्रीविष्णोः

शुश्रूषार्थं सेवार्थं चकर्थं कृतवानसि । उद्गदा उत्कृष्टगदा । तया उद्दामः

उच्छृङ्खल: बाहुः यस्य तस्य तव सम्बन्धिनि । इह अस्मिन् रणे विषये ।

अयं सर्वोत्तमो विष्णुः स्वयं वक्तुं सम्यक् प्रतिपादयितुं समर्थः शक्तः ।

त्वमपि समर्थो हि । अहं तु, सर्वोत्तमश्च त्वं च (तयोः) युवयोः । 'त्यदानीनि

सर्वैर्नित्यम्' (अ.सू.१.२.७२) इति युष्मदः शेषः । पादपद्मं चरणनलिनं

प्रपद्ये शरणं गच्छामि ॥ २४ ॥
 

 
(स्तुतिचं.) 'सिंहनादो भवेत् क्ष्वेडा' इति च । क्ष्वेंडैव क्ष्वेळा च क्ष्वेला

च । तया अक्षीण: अन्यूनः अट्टहासो यस्मिन् तं रणम् । क्ष्वेडया सह

अक्षीणाट्टहासं वा । स्वक्ष्वेडया क्षीणः परेषामट्टहासो वा यस्मिन् । स

चाट्टहासः योऽट्टेष्वपि प्रतिनदति । उद्गृहीतया गदया उद्दामो निरङ्कुशो बाहुर्यस्य

तव । 'अयन्त्रितं स्यादुद्दामम्' इति च । अक्षोहिणीत्येव प्रतनः प्रयोगः पुराणेषु

भगवत्पादकृतिषु च । 'अक्षादूहिन्यामुपसङ्ख्यानम्' इति शक्यमवक्तुम् ।

बह्वक्षोहिणीमयं यदनीकं तस्य क्षपणे सुनिपुणं रणम् । 'चक्रं चमूर्व-

रूथिन्यनीकिनी स्यादनीकं च ' इति च । यस्य शुश्रूषार्थं चकर्थं स्वयमयं

कृष्ण: इह रणविषये कीदृशोऽयं रण इति वक्तुं समर्थः । यश्चकर्थ स

त्वमपि । कथङ्कारमन्ये प्रभवेयुः ॥ २४ ॥
 

 
द्रुह्यन्तीं हृद्-रुहं मां द्रुतमनिल बलाद् द्रावयन्तीमविद्या -

निद्रां विद्राव्य सद्यो - रचन-पटुमथाऽपाद्य विद्या -समुद्र ।

वाग् - देवी सा सुविद्या- द्रविण- द विदिता द्रौपदी रुद्र-पत्न्या-

द्
युद्रिक्ता द्रागभद्राद् रहयतु दयिता पूर्व भीमाऽज्ञया ते ॥
 

॥ २५ ॥
 

 
[^
.] संस्तव इव संवादोऽपि न मूलार्थं जहातीत्यवगन्तव्यम् । 'संवक्तुं सम्यक् कथयितुम्' इति पा.।
 
24