This page has not been fully proofread.

वायुस्तुतिः
 
देवताभक्ताः' इत्यादि च । 'यज्ञेष्विज्यो हरिः स्वयम्' इति चान्यत्र । कृष्णं
तर्पयामासिथ । असौ कृष्ण: राजसूयाङ्गेऽश्वमेधे तावत्या तृप्त्या किमा-
युज्यत? ॥ २३ ॥
 
क्ष्बेलाक्षीणाट्ट-हासं तब रणमरि - हनुद्गदोद्दाम- बाहो -
र्बह्वक्षोहिण्यनीक-क्षपण- सुनिपुणं यस्य सर्वोत्तमस्य ।
शुश्रूषार्थं चकर्त्य स्वयमयमिह सं वक्तुमानन्दतीर्थ-
श्रीमन्नामन् समर्थस्त्वमपि हि युवयोः पादपद्मं प्रपद्ये ॥
 
॥ २४ ॥
 
(कविक.) त्वदीयमत्यद्भुतं युद्धं श्रीविष्णुना त्वयाऽपि विना न केनापि
वर्णयितुं शक्यत इति विज्ञापयंस्तयोश्चरणनलिनं शरणं करवाणीत्याह-
क्ष्वेलेति । अरीन् हन्तीत्यरिहा । तस्य सम्बुद्धिः । हे अरिहन् । हन्तेः
क्किप् । 'ब्रह्मभ्रूणवृत्रेषु क्विप्' (अ.सू.३.२.८७) इत्यस्य नियमस्य प्रायि-
कत्वात् । यथाऽह न्यासकार :- 'प्रायिकश्चायं क्विबिति नियमः । क्वचिद-
न्यस्मिन्नप्युपपदे स दृश्यते । मधुहा । प्रायिकत्वं च वक्ष्यमाणबहुलग्रहणस्य
पुरस्तादपकर्षाल्लभ्यते' इति । अन्यत्र प्रयोगश्च – 'हरिहयोऽरियोगविचक्षणः'
इति । आनन्दतीर्थश्रीमन्नामन् मुख्यप्राण । क्ष्वेला सिंहनादः । 'क्ष्वेला तु
सिंहनादः स्यात्' इत्यमरः । तया अक्षीणः प्रवृद्धः अट्टहासः महाहासः
यस्मिंस्तम् । बह्वयः अक्षोहिण्यो यस्मिंस्तस्यानीकस्य सैन्यस्य क्षपणे
१. 'चरणनलिनसेवां करवाणि' इति पा. ।
२. 'बन्धुहा' इति पा. ।
 
३. समग्रा चेयमानुपूर्वी– 'प्रियतमाभिरसौ तिसृभिर्बभौ तिसृभिरेव भुवं सह शक्तिभिः । उपगतो विनिनी-
पुरिव प्रजा हरिहयोऽरिहयोगविचक्षणः' (रघुवं.९.१८) इति । कालसामान्यविवक्षायां क्किबन्यत्रापि
साधुरिति केचिद्व्याचक्षते । प्रयोगश्चात्र प्रमाणम् । तथाहि भारते- 'अमित्रांस्तेजसा मृद्गन्नसुरानिव
चारिहा' (वनप.३३.८६) इति । 'मधुहा मधुरानाथ : ' इति च भगवन्नामसु पठितम् । शतशश्चेदृशाः
प्रयोगाः 'शत्रुहा', 'परवीरहा' इत्यादयः ।
 
४. 'अक्षौहिण्य:' इति पा.। 'अक्षादूहिन्यां वृद्धिर्वक्तव्या' (वा.६.१.८९) इति न वक्तव्यम् । अक्षो-
हिणीत्येव प्राचीनग्रन्थेषु प्रयोगनैयत्यात्।