2023-02-22 13:30:53 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
तर्पयामासिथ । असौ कृष्ण: राजसूयाङ्गेऽश्वमेधे तावत्या तृप्त्या किमा-
युज्यत? ॥ २३ ॥
क्ष्बेलाक्षीणाट्ट-हासं तब रणमरि - हनुद्गदोद्दाम- बाहो -
र्बह्वक्षोहिण्यनीक-क्षपण- सुनिपुणं यस्य सर्वोत्तमस्य ।
शुश्रूषार्थं चकर्त्य स्वयमयमिह सं
श्रीमन्नामन् समर्थस्त्वमपि हि युवयोः पादपद्मं प्रपद्ये ॥
॥ २४ ॥
(कविक.) त्वदीयमत्यद्भुतं युद्धं श्रीविष्णुना त्वयाऽपि विना न केनापि
वर्णयितुं शक्यत इति विज्ञापयंस्तयोश्चरणनलिनं शरणं[^१] करवाणीत्याह-
क्ष्वेलेति । अरीन् हन्तीत्यरिहा । तस्य सम्बुद्धिः । हे अरिहन् । हन्तेः
क्किप् । 'ब्रह्मभ्रूणवृत्रेषु क्विप्' (अ.सू.३.२.८७) इत्यस्य नियमस्य प्रायि-
कत्वात् । यथाऽह न्यासकार :- 'प्रायिकश्चायं क्विबिति नियमः । क्वचिद-
न्यस्मिन्नप्युपपदे स दृश्यते । मधुहा[^२] । प्रायिकत्वं च वक्ष्यमाणबहुलग्रहणस्य
पुरस्तादपकर्षाल्लभ्यते' इति । अन्यत्र प्रयोगश्च – 'हरिहयोऽरियोगविचक्षणः'
इति
इति[^३] । आनन्दतीर्थश्रीमन्नामन् मुख्यप्राण । क्ष्वेला सिंहनादः । 'क्ष्वेला तु
सिंहनादः स्यात्' इत्यमरः । तया अक्षीणः प्रवृद्धः अट्टहासः महाहासः
यस्मिंस्तम् । बह्वयः अक्षोहिण्यो[^४] यस्मिंस्तस्यानीकस्य सैन्यस्य क्षपणे
[^१
[^२
[^३
पुरिव प्रजा हरिहयोऽरिहयोगविचक्षणः' (रघुवं.९.१८) इति । कालसामान्यविवक्षायां क्किबन्यत्रापि
साधुरिति केचिद्व्याचक्षते । प्रयोगश्चात्र प्रमाणम् । तथाहि भारते- 'अमित्रांस्तेजसा मृद्गन्नसुरानिव
चारिहा' (वनप.३३.८६) इति । 'मधुहा मधुरानाथ : ' इति च भगवन्नामसु पठितम् । शतशश्चेदृशाः
प्रयोगाः 'शत्रुहा', 'परवीरहा' इत्यादयः ।
[^४
हिणीत्येव प्राचीनग्रन्थेषु प्रयोगनैयत्यात्।