This page has been fully proofread once and needs a second look.

स्तुतिभू.
 
भावभरितां वादवैखरीं च विस्मयजलधाववजगाहे । अन्तर्विजितोऽपि बहिः

सप्ताष्टानि दिनानि तेन सह विवदमान इव वादकथां चकार । अभिद्यत

अविद्यामयो हृदयग्रन्थिः । निःशेषमच्छिद्यन्त सर्वाः संशीतयः । गलितः

पण्डितगर्वः । शिरो भगवत्पादपादसरोरुहे चुचुम्ब । एवं त्रिविक्रपण्डितः

पूर्वाचार्यपरम्परयाऽनुसृतं मायावादं विधूयाऽचार्यमध्वस्यान्तेवासितामङ्गी-

चकार । सानन्दं तत्ववादे दिदी ॥
 

 
सन्तुष्टो मध्वस्तस्याऽचार्यपदं ददौ । ततस्त्रिविक्रपण्डितः पण्डिताचार्यो

बभूवेति वदन्ति । तस्यास्य तनयः श्रीनारायणपण्डिताचार्यः स्वरचिते

श्रीमध्वविजये स्वतातमन्तरेण कानिचनापूर्वाणि प्रमेयाण्याविश्चकार । तस्यायं

सङ्ग्रहः-

सुब्रह्मण्याख्यः कश्चिद् विपश्चिद् आङ्गिरसगोत्रः 'पेजत्ताय' (3@gಪೆಜತ್ತಾಯ) -

वंशभूषणो बभूव । स्वयं तपस्वी, चतुरः कविः, वादेन विनिर्जितनिखिल-

विद्वन्निकुरम्बः सम्भावितः समाजप्रमुखैरास ॥
 

 
तस्य महान्तमनेहसं नाऽस तनयमुखलालनयोगः । जातानिजातान्यपत्यान्य-

म्रियन्त । तदा साध्वी पण्डितदयिता चिररात्राय कुलदैवते हरिहरौ परि-

सिषेवे । फलिता तस्याः सेवा । बहोः कालात् तनयो जज्ञे । प्रेमपाकस्य

पोतस्य पिता नाम चकार त्रिविक्रम इति ॥
 

 
शैशव एव प्रदर्शितप्रतिभातिशयोऽयं वटुर्वृद्धानां जनितविस्मयः प्रवर्धमानो वेदे

वेदान्ते काव्ये च प्रकटितविक्रमोऽन्वर्थं चकार पितृदत्तं नामधेयम् ॥

(अनयोर्दम्पत्योरथान्योऽपि कुमारो जज्ञे, यः शङ्कराह्वो बभूव । ऐतिह्यविदो

वदन्ति - अन्या कन्याऽप्यजायत, यां कल्याणीदेवीमाहुः । नेयं सुब्रह्मण्य

सूरिकुमारी, किन्तु त्रिविक्रमपण्डितात्मजेत्यन्ये ।)
 

 
कौमार एव त्रिविक्रम चतुरः कविरास । विपश्चितामपि विस्मयजननी बभूव

चास्यादृष्टाश्रुतपूर्वा प्रतिभा । तरुणः सन्नेव 'उषाहरणं' नाम महाकाव्यं
 
5