2023-02-17 11:03:17 by ambuda-bot
This page has not been fully proofread.
श्लो.२३-२४
यावत् प्रत्यक्ष- भूतं निखिल मख-भुजं तर्प्पयामासिधासौ
तात्यायोजि तृप्त्या किमु बद भगवन् राज-सूयाश्व-मेधे ॥ ॥
॥ २३ ॥
।
१
(कविक.) अनन्यसाध्यो जरासन्धवधस्त्वयाऽकारि । तेन भगवतो महा-
प्रीतिरासीदिति विज्ञापयति- निर्मृद्गन्निति । विगता जरा येभ्यस्ते विजराः
देवाः । तेषु वरः श्रेष्ठः । तस्य सम्बुद्धिः । हे विजरवर । 'दैवाद्भुते वरः श्रेष्ठे
त्रिषु क्लीबं मनाक् प्रिये' इत्यमरः । जरासन्धस्य कायास्थ्नां शरीरकीकसानां
सन्धीन् अवान्तरप्रदेशान् । अत्ययत्नं अनतिप्रयत्नं यथा भवति तथा । निर्मृद्गन्
भञ्जन् । त्वं युद्धे रणे स्वध्वरे वा महायाग इव । 'वा विकल्पोपमानयोः '
इत्यमरः । विष्णोः पक्षाः सहाया देवाः । 'पक्षः पाश्र्वगरुत्साध्यसहायब-
लभित्तिषु' इत्यमरः ं । तेषां द्विषः द्वेषिणो दैत्याः । तेषामीशं परिवृढम् ।
महादैत्यमित्यर्थः । तं पशुमिव यज्ञपशुमिव दमयन् मारयन् । प्रत्यक्षभूतं
चक्षुर्गोचरम् । निखिलमखभुजं सकलयज्ञभोक्तारं श्रीविष्णुम् । यावत् यथा
तर्पयामासिथ । 'तृप प्रीणने' इत्यस्माद्धातोर्लिटि 'कास्प्रत्ययात्–' (अ.सू.
३.१.३५) इत्यादिनाऽऽम्प्रत्यये थलि रूपम् । हे भगवन् श्रीवायो, त्वया
असौ श्रीविष्णुः राजसूयेऽश्वमेधे च यागविशेषे तावत्या तृप्त्या अयोजि किमु?
योजितः किमु? नेत्यर्थः । वद ब्रूहि । जरासन्धबधाद्भगवतो यावती प्रीतिः
सा राजसूययागेऽश्वमेधयागे च नाभूदित्यर्थः ॥ २३ ॥
(स्तुतिचं.) विजरा निर्जरा देवास्तेषु वर । अतिशयेनायत्नम् । यत्नलेशा-
दपि विना । स्वध्वरे वा यज्ञ इव युद्धे । पशुमिव विष्णुपक्षद्विडीशं जरासन्धं
दमयन् । स्विति यज्ञस्य वैष्णवत्वमाह । 'सप्ततन्तुर्मखोऽध्वरः' इति, 'वा
विकल्पोपमानयोः' इति च । निखिलमखभुजं सर्वयज्ञभोक्तारम् । उक्तं हि
भगवता– 'अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ' इति । 'येऽप्यन्य-
१. लिपिकृत्प्रमादोऽयम्। नेदममरवचनम् । 'इत्यमरः' इत्यत्र 'इति यादवः' इति पठितव्यम्।
२. 'यावती प्रीतिः तावती प्रीतिः' इति पा. ।
23