This page has been fully proofread once and needs a second look.

वायुस्तुतिः
 

 
सुखस्य विघ्नः अन्तरायः । 'विघ्नोऽन्तरायः प्रयूहः' इत्यमरः । जघ्ने हतः ।

हन्तेः कर्मणि लिटि 'अभ्यासाच्च' (अ.सू. ७.३.५५ ) इति कुत्वम् ।

'गमहन–' (अ.सू.६.४.९८) इत्यादिनोपधालोपः । अथ अनन्तरम् । यः
[^१]
दुर्मतीनां दुष्टबुद्धीनां प्रथमं आदिभूतम् । श्रेष्ठमित्यर्थः । ज्येष्ठवधप्रतीकारं

कर्तुकामं किर्मीरं नाम बकानुजं च । नर्मणा परिहासेन । अनाया-

सेनेत्यर्थः । निर्ममाथ निर्मथितवान् । 'मन्थ विलोडने'[^२] इति धातोर्लिटि यो

णलू (तस्य) 'अत उपधायाः' (अ.सू. ७.२.११६) इत्युपधावृद्धिः । तस्मै

तथाविधमहिम्ने कुरुकुलपतये कुरुकुलस्वामिने ते तुभ्यम् । कर्मणा काय-

व्यापारेण चकारोऽनुक्तसमुच्चयार्थः । तेन मनसा वचसा च । प्रणामान्

नमस्कारान् कुर्मः कृतवन्तः स्मः ॥ २२ ॥
 
४४
 
-
 
-
 

 
(स्तुतिचं.) शोचति विप्रे, यस्य सद्म स्वयमध्युवास, दयापाशैः पर-

तन्त्रेण । 'परावांस्तु पराधीनो निघ्नः परवशस्तथा' इति, 'घृणाऽनुकम्पाऽ-

नुक्रोशः' इति च । बकवधादेकचक्रानगरवासिनां जनानां प्राणधारण-

सुखस्यान्तरायो न्यवार्यत । 'असवो जीवितं प्राणाः' इति च । अथ च बकानुजं

किर्मीरं च नर्मणा क्रीडया, अनायासेनेत्येतत्, निर्ममाथ निर्ममन्थ । मथे

विलोडने' इत्यस्य लिटि प्रथमपुरुषे रूपम् - ममाथ मेथतुर्मेथुरिति । 'परिहासो

भवेन्नर्म केळी क्रीडा च खेलनम्' इति च । तस्मै ते कायकर्मणा वचनकर्मणा

मनसा च प्रणामान् कुर्मः ॥ २२ ॥
 

 
निर्म्मृद्गन्नत्ययत्नं विजर-बर जरा-सन्ध-कायास्थि-सन्धीन्

युद्धे त्वं स्वध्वरे वा पशुमिव दमयन् विष्णु-पक्ष-द्विडीशम् ।
 
२.
 

 
[^
.] क्वचित् 'यस्त्वम्' इति पाठः प्रामादिक एव । उत्तरत्र ममाथेति प्रथमपुरुषत्वेन व्याख्यानात्।

 
[^२]
लिपिकृतः प्रामाद्यन् । नेदं मन्थते रूपम् । तथात्वे निर्ममन्थेति स्यात् । किन्तु 'मथे विलोडने' इत्यस्य

रूपमिदम्। अथवा नेदं मथतेरपि रूपम् । किन्तु क्रीणात्यादिकात् हिंसार्थात् मीनाते रूपम् । तत्रापि न

णल्। किन्तु थल् । मीनातेर्लिटि मध्यमपुरुषैकवचने ममिथ ममाथ इति हि द्वयं रूपम् । तथाच निर्ममाथ

निःशेषं हिंसितवानसि मारितवानसीति यावत् ।