2023-02-17 11:03:16 by ambuda-bot
This page has not been fully proofread.
श्लो.२१
प्रणयः स्नेहः । तेन विकसिते अब्जेक्षणे कमलनेत्रे यस्य सः । रामनामा
रामाभिधः मुकुन्दः हरिः । त्वा त्वाम् । 'त्वामौ द्वितीयायाः' (अ.सू.८.१.२३)
इति त्वादेशः । ईक्षमाणः अवलोकमानः सन् । सहभुजं सहभोक्तारं' अकरोत्
कृतवान् । मोक्षसुखानुभवकर्तारमकरोदिति भावः ॥ २१ ॥
( स्तुतिचं.) रामस्य य आदेशस्तस्य देवीं प्रति प्रणीतिः । देव्याश्च रामं
प्रति । 'शम्भुः स्वयम्भूर्द्रुहिणश्चतुर्वक्त्रः प्रजापतिः' इति च । आसेवया
बर्धमाना दया । तयाऽर्द्रः द्रुतचित्तः । दुष्प्रापे पारमेष्ठचे पदे सहभुजमकरोत्
प्रणयप्रफुल्लनेत्राभ्यां त्वामीक्षमाणः ॥ २१ ॥
जघ्ने निघ्नेन विघ्नो बहुल-बल- बक- ध्वंसनाद् येन शोचद्-
विप्रानुक्रोश-पाशैरसु - विधृति-सुखस्यैकचक्रा-जनानाम् ।
-
तस्मै ते देव कुर्म्मः कुरु कुल पतये कर्म्मणा च प्रणामान्
किम्मरं दुर्म्मतीनां प्रथममथ च यो नर्म्मणा निर्ममाथ ॥
॥ २२ ॥
( कविक.) हनुमदवतारव्यापारविज्ञापनानन्तरं श्रीभीमावतारव्यापारान्
विज्ञापयन् मुख्यप्राणं प्रणमति जन इति । हे देव, शोचन्तः शोकं
कुर्वन्तः । ते च ते विप्राश्च । तेषु अनुक्रोशपाशैः कृपारज्जुभिः । 'कृपा
दयाऽनुकम्पा स्यादनुक्रोशः' इत्यमरः । निघ्नेन अधीनेन । 'अधीनो निघ्न
आयत्तः' इत्यमरः । येन त्वया बहुलं अधिकं बलं शक्तिर्यस्य । 'बलं
सैन्यं बलं स्थौल्यं बलं शक्तिर्बलोऽसुरः' इति यादवः" । तस्य बकस्य ध्वंस-
नात् हननाद्धेतोः । एकचक्राजनानां एकचक्राग्रामनिवासिनाम् । असूनां
प्राणानां। 'पुंसि भूम्यसवः प्राणाः' इत्यमरः । विधृतिः धारणम् । तेन जातस्य
२. '– कर्तारमतनोदिति' इति पा. ।
४. नायं यादवप्रकाशे उपलभ्यते । अन्यत्र क्वचित् स्यात् ।
१. इतः परम् 'सत्यलोकाधिपत्यमित्यर्थः' इति क्वचित् ।
३. 'श्रीमुख्यप्राणम्' इति पा ।
22