This page has not been fully proofread.

वायुस्तुतिः
 
घृष्टास्थिकूटम् । 'धान्यादिवृन्दे कूटोऽस्त्री' इति यादवप्रकाशः । अत एव तद्
दृष्ट्वा सुवर्णाद्रेः विशदे तटे तटाकोऽयमिति जनानां शङ्का बभूव । 'रुग्मं हाटकं
शातकुम्भम्' इति, 'विशदं प्रकटं स्पष्टम्' इति, 'सानुः प्रस्थं तटं भृगुः'
इति च । 'उv' इति भाषायाम् । येन मुष्टिना । रामप्रियनटनपटुः स मुष्टिः
किं ममाभीष्टं प्रदेष्टुं नेष्टे? ईष्ट एव । 'अष्टापदं च जाम्बूनदं हिरण्यम्' इति,
'कटको वलयस्तथा' इति च । '' इति भाषायाम् । तस्य विद्युत्कोटिसदृशी
भाः । तया परामृष्टाः काष्ठा दिशो येन ॥ २० ॥
 
४२
 
देव्यादेश-प्रणीति-द्रुहिण-हर-बरावद्ध्य-रक्षो- विघाता-
द्या - सेवोद्यद्-दयाई : सह-भुजमकरोद्राम-नामा मुकुन्दः ।
दुष्प्रापे पारमेष्ठये कर - तळमतुलं मूर्ध्नि विन्यस्य धन्यं
तन्वन् भूयः प्रभूत-प्रणय- विकसिताब्जेक्षणस्त्वेक्षमाणः ॥
 
॥ २१ ॥
 
(कविक.) त्वत्सेवया प्रीतो विष्णुर्ब्रह्मत्वविषये मस्तके हस्तं निधाय
निरवग्रहानुग्रहमकरोदिति विज्ञापयति- देव्यादेशेति । देवी सीता । तां प्रति
श्रीरामस्याऽदेशप्रणीतिः आज्ञाप्रापणम् । श्रीरामं प्रति देवीविज्ञापनप्रापणं
च । तदुक्तम्– 'रामस्य स्वृतरूपस्य वाचस्तेनानयन्त हि' इति । द्रुहिण-
हरयोः ब्रह्मरुद्रयोः वरेण अवध्यानि यानि रक्षांसि राक्षसाः तेषां विघातः ननं
स आदिर्यस्यास्तया आसेवया अच्छिद्रशुश्रूषया उद्यद्दयया उद्गच्छत्कृपया '
आर्द्रः सिक्तः । दुष्प्रापे अन्यैः प्राप्तुमशक्ये पारमेष्ठचे ब्रह्मत्वविषये । अतुलं
समाधिकरहित करतळं हस्ततळम् । मूर्ध्नि शिरसि विन्यस्य । धन्यं
कृतार्थम् । 'धनगणं लब्धा' (अ.सू.४.४.८४) इति यत्प्रत्ययः । तन्वन्
कुर्वाणः । भूयः पुनः । प्रभूतः प्रचुरः । 'प्रभूतं प्रचुरं प्राज्यम्' इत्यमरः ।
 

 
१. 'देवीं सीतादेवीं प्रति' इति पा ।
३. 'उत्कृष्टकृपया' इति पा. ।
 
२. 'रक्षांसि तेषाम्' इति पा ।
 
४. 'समानाधिकरहितम्' इति पा ।