This page has been fully proofread once and needs a second look.

वायुस्तुतिः
 
घृष्टास्थिकूटम् । 'धान्यादिवृन्दे कूटोऽस्त्री' इति यादवप्रकाशः । अत एव तद्

दृष्ट्वा सुवर्णाद्रेः विशदे तटे तटाकोऽयमिति जनानां शङ्का बभूव । 'रुग्मं हाटकं

शातकुम्भम्' इति, 'विशदं प्रकटं स्पष्टम्' इति, 'सानुः प्रस्थं तटं भृगुः'

इति च । 'उvತಪ್ಪಲು' इति भाषायाम् । येन मुष्टिना । रामप्रियनटनपटुः स मुष्टिः

किं ममाभीष्टं प्रदेष्टुं नेष्टे? ईष्ट एव । 'अष्टापदं च जाम्बूनदं हिरण्यम्' इति,

'कटको वलयस्तथा' इति च । '' इति भाषायाम् । तस्य विद्युत्कोटिसदृशी

भाः । तया परामृष्टाः काष्ठा दिशो येन ॥ २० ॥
 
४२
 

 
देव्यादेश-प्रणीति-द्रुहिण-हर-रावद्ध्य-रक्षो- विघाता-
द्या -

द्या-
सेवोद्यद्-दयार्द्द्र्: सह-भुजमकरोद्राम-नामा मुकुन्दः ।

दुष्प्रापे पारमेष्ठ्ये कर - -तळमतुलं मूर्द्ध्नि विन्यस्य धन्यं

तन्वन् भूयः प्रभूत-प्रणय- विकसिताब्जेक्षणस्त्वेक्षमाणः ॥
 

॥ २१ ॥
 

 
(कविक.) त्वत्सेवया प्रीतो विष्णुर्ब्रह्मत्वविषये मस्तके हस्तं निधाय

निरवग्रहानुग्रहमकरोदिति विज्ञापयति- देव्यादेशेति । देवी सीता । तां प्रति
[^१]
श्रीरामस्याऽदेशप्रणीतिः आज्ञाप्रापणम् । श्रीरामं प्रति देवीविज्ञापनप्रापणं

च । तदुक्तम्– 'रामस्य स्वृतरूपस्य वाचस्तेनानयन्त हि' इति । द्रुहिण-

हरयोः ब्रह्मरुद्रयोः वरेण अवध्यानि यानि रक्षांसि राक्षसाः तेषां[^२] विघातः ननं

स आदिर्यस्यास्तया आसेवया अच्छिद्रशुश्रूषया उद्यद्दयया उद्गच्छत्कृपया '
[^३]
आर्द्रः सिक्तः । दुष्प्रापे अन्यैः प्राप्तुमशक्ये पारमेष्ठचे ब्रह्मत्वविषये । अतुलं

समाधिकरहितं [^४] करतळं हस्ततळम् । मूर्ध्नि शिरसि विन्यस्य । धन्यं

कृतार्थम् । 'धनगणं लब्धा' (अ.सू.४.४.८४) इति यत्प्रत्ययः । तन्वन्

कुर्वाणः । भूयः पुनः । प्रभूतः प्रचुरः । 'प्रभूतं प्रचुरं प्राज्यम्' इत्यमरः ।
 

 

 
[^
.] 'देवीं सीतादेवीं प्रति' इति पा
. ।
 
[^२] 'रक्षांसि तेषाम्' इति पा ।
 
[^
.] 'उत्कृष्टकृपया' इति पा. ।
 
२. 'रक्षांसि तेषाम्' इति पा ।
 

 
[^
.] 'समानाधिकरहितम्' इति पा
 
. ।