This page has been fully proofread once and needs a second look.

श्लो.२०
 
प्रतिक्षिप्तः स्वस्वस्थानेषु स्थितानि, अत एवातिस्थिराणि शकलशिला-

जालानि । तेषां पूर्ववद् दृढं संश्लेषेण नष्टच्छेदाङ्कः । तव नमः कौशलाय

चातुर्याय । 'कुशलं निपुणे पुण्ये' इति यादवप्रकाशः ॥ १९ ॥
 
४१
 

 
दृष्ट्वा दुष्टाधिपोरः स्फुटित- कनक- कनक-सद्-वर्म्म घृष्ठास्थि-कूटं

निष्पिष्टं हाटकाद्रि प्रकट -प्रकट-तट-तटाकाति- शङ्को जनोऽभूत् ।

येनाऽजौ रावणारि- प्रिय-नटन-पटुर्मुष्टिरिष्टं प्रदेष्टुं

किं नेष्टे मे स तेऽष्टापद- कटक-तटित्-कोटि-भामृष्ट-काष्ठः ॥
 

॥ २० ॥
 

 
(कविक.) शिष्टानामिष्टप्रदोऽस्य मुष्टिरिति स्पष्टयन् मुष्टिं विशिनष्टि-

दृष्ट्वेति । हे मुख्यप्राण, येन मुष्टिना । स्फुटितं विदीर्णं[^१] कनकसद्वर्म

सुवर्णसुकवचः यस्य तत् । घृष्टानि प्रध्वंसितानि अस्थीन्येव कूटानि शैल-

शृङ्गाणि[^२] यस्य तत् । 'अयोधने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम्' इत्यमरः ।

निष्पिष्टं नितरां चूर्णांकतम्[^३] । दुष्टाः राक्षसाः तेषामधिपः रावणः तस्योरः

वक्षस्थलम् । जनो लोको दृष्ट्वा । हाटकाद्रिः सुवर्णगिरिर्मेरुः । तस्मिन् प्रकटः

प्रकाशमानः तटः रोधः । तस्मिंस्तटाक इति अति अत्यर्थं शङ्का भ्रान्तिर्यस्य

सोऽभूत् । आजौ युद्धे । रावणारिः रघुपतिः तस्य प्रियनटनं इष्टकरणम् ।

तत्र पटुः दक्षः । अष्टापदकटकस्य सुवर्णवलयस्य । 'कटकं वलयोऽस्त्रियाम्'

इत्यमरः । तटित्कोटिसमाः भाः द्युतयः । ताभिरामृष्टाः व्याप्ताः काष्ठाः दिशो

यस्य सः । 'दिशस्तु ककुभः काष्ठाः' इत्यमरः । ते तव मुष्टिः मे मम इष्टं

अभिलषितं प्रदेष्टुं दातुं नेष्टे न शक्नोति किम्? शक्नोत्येवेत्यर्थः ॥ २० ॥

 
(स्तुतिचं.) दुष्टाधिपस्य रावणस्योरः । स्फुटितं पुटपाकेन शोधितं यत् कनकं

तन्मयं वर्म यस्य तादृशम् । 'सन्नाहः कवचं वर्म' इति च । मुष्टिनिष्पिष्टतया
 

 
[^१] 'स्फुटितं भग्नम्' इति पा. ।
 
[^
.] 'गिरिशृङ्गाणि' इति पा. ।
 
१. 'स्फुटितं भग्नम्

 
[^३] 'नितरां पिष्टं चूर्णीकृतमित्यर्थः
' इति पा. ।
 
३. 'नितरां पिष्टं चूर्णीकृतमित्यर्थः' इति पा. ।
 
21