2023-02-17 11:03:16 by ambuda-bot
This page has not been fully proofread.
वायुस्तुतिः
३
क्षिप्तः पश्चात् स-लीलं शतमतुल मते योजनानां स उच्च-
स्तावद्-विस्तारवांश्चाप्युपल-लव इव व्यग्र बुद्ध्या त्वयाऽतः ।
स्व-स्व - स्थान स्थिताति-स्थिर - शकल-शिला-जाल-संश्लेष-नष्ट-
च्छेदाङ्कः प्रागिवाभूत् कपि-वर-वपुषस्ते नमः कौशलाय ॥ १९ ॥
(कबिक.) कविरिदानीं तदतिमानुषव्यापरं स्मारस्मारं स्तावंस्तावं चोदि-
तोद्वेलानन्दसन्दोहसमुद्रे विगाहमानो मध्ये तत्कौशलं प्रणमति– क्षिप्त
इति । हे अतुलमते अनुपमबुद्धे । योजनानां शतं उच्चः उन्नतः तावद्विस्तार-
वान् विशालवान् । यावदुन्नतस्तावद्विस्तारवानित्यर्थः । सः प्रथममानीतो
गिरिः । व्यग्रबुद्ध्या विविधसूक्ष्मबुद्ध्या । कृतोहापोहमत्येत्यर्थः । त्वया ।
उपललवः पाषाणशकलः । स इव । अतः अस्माल्लङ्काप्रदेशात् । लीलया सह
वर्तत इति सलीलं क्षिप्तः प्रेरितः । स्वानिस्वानि स्थानानि स्वस्वस्था-
नानि । तेषु स्थिताः अतिस्थिराः दृढतराः शकलाः खण्डाः यासां तासां
शिलानां दृषदां जालं समूहः । 'चक्रं जालं च जालकम्' इति विश्वः । तस्य
संश्लेषः सम्बन्धः । तेन नष्टः नाशं गतः । च्छेदस्य स्फोटस्य अङ्कः
चिह्नम् । 'कलङ्काङ्कौ लाञ्छनम्' इत्यमरः । यस्य स तादृशः सन् । पश्चात्
अनन्तरमपि । यदा सञ्जीवनाद्यौषधमादाय पुनस्तथैव प्रक्षिप्तस्तदानीम-
पीत्यर्थः । प्रागिवाभूत् उत्पाटनात्पूर्वमनेन यथा स्थितं पश्चादपि तथाऽस्थी-
यतेत्यर्थः । कपिवरवपुषः प्लवगश्रेष्ठकायस्य ते तब कौशलाय कर्तव्ये क्षिप्र-
कारित्वाय नमः । 'नमः स्वस्ति - ' (अ.सू. २.३.१६) इत्यादिना नमः-
शब्दयोगे चतुर्थी ॥ १९ ॥
(स्तुतिचं.) योजनानां शतमुच्चस्तावदेव विस्तारवान् । उपललव इव
शिलाशकलमिव अनायासेन व्यग्रबुद्ध्या अनवहितेन च चेतसा अतो लङ्कातः
२. 'विशालः' इति पर्याप्तम् ।
१. '– व्यापारान्' इति पा. ।
३. 'अकृतोहापोहमत्येत्यर्थः' इति पा । व्यग्रबुद्ध्या अनवहितबुद्ध्या अन्यासक्तबुद्ध्या इत्यप्यर्थः
४. 'स्फुटनस्य' इति पा. ।
स्वरसः ।
-