2023-02-17 11:03:16 by ambuda-bot
This page has not been fully proofread.
श्लो. १८
स्थानं पर्वतं लङ्कां प्रति अनैषीः आनीतवानसि । णीञ् प्रापण इत्यस्माल्लुङि
'सिचि वृद्धिः–'(अ.सू.७.२.१) इत्यादिना वृद्धिः । तदा लोकः जनः ।
'लोकस्तु भुवने जने' इत्यमरः । एकक्षणे क्षणाख्यकाले । क्षणस्वरूप-
मुच्यते – यस्य सांशत्वेऽप्यवयवविभागः परस्परं न क्रियते स परमाण्वाख्यः
कालः । एवम्भूतेन परमाणुद्वयेनाणुकाल उच्यते । द्वयणुककालत्रयेण
त्रसरेणुकालः । त्रसरेणुत्रयेण त्रुटिकालः । त्रुटिकालत्रयेण वेधाख्यकालः ।
त्रिभिर्वैधैलवाख्यकालः । त्रिभिलवैर्निमेषः । निमेषत्रयेण यः कालो भवति
स क्षण इति । ततः तस्या लङ्कायाः । उत्पतन्तं उत्प्लवमानम् । उत
अनन्तरम् । अव्ययानामनेकार्थत्वात् । तं गिरिं उत्पाटयन्तं उन्मूलयन्तम् ।
अनन्तरं गिरिं गृहीत्वा आयान्तं आगच्छन्तम् । अनन्तरं खे आकाशे । 'अनन्तं
सुरवर्त्म खम्' इत्यमरः । राघवाौ रघुपतिपदाब्जे प्रणतमपि प्रणामं
चाऽरभमाणम् । 'आदिकर्मणि क्तः कर्तरि च' (अ.सू.३.४.७१) इति
क्तः । त्वां अद्राक्षीत् आलोकितवान् (हि) । 'दृशिर् प्रेक्षणे' इत्यस्मा-
ल्लुङ् । 'सृजिदृशोर्झल्यमकिति' (अ.सू.६.१.५८) इत्यमागमः । एकस्मिन्
क्षणे, लङ्काप्रदेशात् पञ्चाशत्सहस्रयोजनमार्गगमनं पर्वतोत्पाटनं तं गृहीत्वा
ताबन्मार्गप्रत्यागमनं तत्पादपङ्कजप्रणाम (इति) एवम्भूतो व्यापारोऽन्यैरने-
ककालकर्तव्योऽपि त्वयैकस्मिन् कृतः । अहो ते महिमार्णवाणुरपि
स्तोतॄणामवामनसगोचर इति भावः ॥ १८ ॥
(स्तुतिचं.) पञ्चाशत्सहस्रैर्योजनैः व्यवहितम्, अमितभारम्, सञ्जीवनादि-
भेषजनिधिं यावद् यदा लङ्कामनैषीः । प्रणेतृष्वधिक । तदा ततो लङ्कात
उत्पतन्तम्, उत पुनर्गिरिमुत्पाटयन्तम्, उत्पाट्य च करे निधाय खे समायान्तम्,
रामचरणे प्रणतं च लोक एकक्षणेऽद्राक्षीत् ॥ १८ ॥
१. अवधारणार्थं तात्पर्यार्थं वा 'एकस्मिन् क्षणे' इति द्विरुक्तम् ।
२. 'अत: अहो ते' इति पा ।
20