This page has been fully proofread once and needs a second look.

श्लो. १८
 
स्थानं पर्वतं लङ्कां प्रति अनैषीः आनीतवानसि । णीञ् प्रापण इत्यस्माल्लुङि

'सिचि वृद्धिः–'(अ.सू.७.२.१) इत्यादिना वृद्धिः । तदा लोकः जनः ।

'लोकस्तु भुवने जने' इत्यमरः । एकक्षणे क्षणाख्यकाले । क्षणस्वरूप-

मुच्यते – यस्य सांशत्वेऽप्यवयवविभागः परस्परं न क्रियते स परमाण्वाख्यः

कालः । एवम्भूतेन परमाणुद्वयेनाणुकाल उच्यते । द्व्यणुककालत्रयेण

त्रसरेणुकालः । त्रसरेणुत्रयेण त्रुटिकालः । त्रुटिकालत्रयेण वेधाख्यकालः ।

त्रिभिर्वैधैर्लवाख्यकालः । त्रिभिलवैर्निमेषः । निमेषत्रयेण यः कालो भवति

स क्षण इति । ततः तस्या लङ्कायाः । उत्पतन्तं उत्प्लवमानम् । उत

अनन्तरम् । अव्ययानामनेकार्थत्वात् । तं गिरिं उत्पाटयन्तं उन्मूलयन्तम् ।

अनन्तरं गिरिं गृहीत्वा आयान्तं आगच्छन्तम् । अनन्तरं खे आकाशे । 'अनन्तं

सुरवर्त्म खम्' इत्यमरः । राघवाौ रघुपतिपदाब्जे प्रणतमपि प्रणामं

चाऽरभमाणम् । 'आदिकर्मणि क्तः कर्तरि च' (अ.सू.३.४.७१) इति

क्तः । त्वां अद्राक्षीत् आलोकितवान् (हि) । 'दृशिर् प्रेक्षणे' इत्यस्मा-

ल्लुङ् । 'सृजिदृशोर्झल्यमकिति' (अ.सू.६.१.५८) इत्यमागमः । एकस्मिन्

क्षणे, लङ्काप्रदेशात् पञ्चाशत्सहस्रयोजनमार्गगमनं पर्वतोत्पाटनं तं गृहीत्वा

तान्मार्गप्रत्यागमनं तत्पादपङ्कजप्रणाम (इति) एवम्भूतो व्यापारोऽन्यैरने-

ककालकर्तव्योऽपि त्वयैकस्मिन् क्षणे[^१] कृतः । [^२]अहो ते महिमार्णवाणुरपि

स्तोतॄणामवाङ्मनसगोचर इति भावः ॥ १८ ॥
 

 
(स्तुतिचं.) पञ्चाशत्सहस्रैर्योजनैः व्यवहितम्, अमितभारम्, सञ्जीवनादि-

भेषजनिधिं यावद् यदा लङ्कामनैषीः । प्रणेतृष्वधिक । तदा ततो लङ्कात

उत्पतन्तम्, उत पुनर्गिरिमुत्पाटयन्तम्, उत्पाट्य च करे निधाय खे समायान्तम्,

रामचरणे प्रणतं च लोक एकक्षणेऽद्राक्षीत् ॥ १८ ॥
 

 
[^
.] अवधारणार्थं तात्पर्यार्थं वा 'एकस्मिन् क्षणे' इति द्विरुक्तम् ।
 

 
[^
.] 'अत: अहो ते' इति पा
 
20
 
. ।