This page has been fully proofread once and needs a second look.

शालते शोभत इत्यपि व्याचक्षते । इह भुवि हनुमानिति ख्यातः अग्र्यः
प्रथमोऽवतारः । हन गतौ । हननं हनुरवगतिः । तद्वान् हनुमान् ।
आधिक्येऽधिकम् । तेन हनूमान् । अवधारणे वा । 'दीर्घं प्लुतं च हिङ्कारो
बिन्दुरप्यवधारणे' इति हि स्मरन्ति । 'हनशब्दो ज्ञानवाची हनूमान्
मतिशब्दितः' इति च प्राचां वचनम् । तमवतारं वन्दे । माहात्म्यं विज्ञाय
सस्नेहानां सतां देहिनां प्रत्यहमन्तर्बहिरहितं निर्दछन् । अनभिभाव्यत्वं
सहः । अपराजितत्वमित्येतत् । 'वृजिनं दुरितं दुष्कृतमघमंहः' इति च । मोहो
वैचित्त्यं तत्वविस्मृतिः । तावपहन्ति । अंहसा निमित्तेन यो मोहस्तमपहन्ति
वा । अद्यापि किम्पुरुषे वसन् । भक्त्यै स्पृहयति । द्विविधोऽपि साधुः
प्रयोगः । कर्मत्वे विवक्षिते द्वितीया । सम्प्रदानत्वे चतुर्थीति । न हि महतां
विवक्षां निजिघृक्षन्ति लघवः ॥ १७ ॥
 
प्राक् पञ्चाशत्-सहस्रैर्व्यवहितममितं योजनैः पर्वतं त्वं
यावत् सञ्जीवनाद्यौषध-निधिमधिक प्राण लङ्कामनैषीः ।
अद्राक्षीदुत्पतन्तं तत उत गिरिमुत्पाटयन्तं गृहीत्वाऽऽ-
यान्तं खे राघवाङ्घ्रौ प्रणतमपि तदैक-क्षणे त्वां हि लोकः ॥
॥ १८ ॥
 
(कविक.) व्यापारान्तरं विज्ञापयति- प्राक् पञ्चाशदिति । हे अधिकप्राण
अधिकबल, त्वं यावत् यदा, प्राक् पूर्वम् । पञ्चाशत्सहस्रैः पञ्चाशत्सङ्ख्याकैः
सहस्रैः योजनैः व्यवहितं अन्तरितम् । अमितं कीदृशोऽयं कुत्र वर्तत इति
पूर्वमविज्ञातरूपम्[^१] । सञ्जीवनं मृतसञ्जीवनं[^२] आदिर्येषां तेषामौषधानां[^३] निधिं
 
[^१] 'अविज्ञातस्वरूपम्' इति पा ।
 
[^२] इतः परं क्वचित् 'मृतसञ्जीवनी मुख्या सन्धानकरिणी परा। सवर्णकरणी चेति विशल्यकरणीति च'
इति श्लोकः पठ्यते ।
 
[^३] 'तेषामोषधीनाम्' इति पा. । तदा 'सञ्जीवनाद्योषधिनिधिम्' इति मूलपाठः स्यात् ।